चतुर्थः खण्डः
१1
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा
अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १ ॥
asau vāva loko gautamāgnistasyāditya eva samidraśmayo dhūmo'hararciścandramā
aṅgārā nakṣatrāṇi visphuliṅgāḥ || 1 ||
२2
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा
सम्भवति ॥ २ ॥
tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā
sambhavati || 2 ||
इति चतुर्थखण्डभाष्यम् ॥
iti caturthakhaṇḍabhāṣyam ||