प्रथमं ब्राह्मणम्
१1
ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं
ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
oṃ khaṃ brahma | khaṃ purāṇaṃ vāyuraṃ khamiti ha smāha kauravyāyaṇīputro vedo'yaṃ
brāhmaṇā vidurvedainena yadveditavyam || 1 ||
इति पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥
iti pañcamādhyāyasya prathamaṃ brāhmaṇam ||