तृतीयः पादः
अर्चिराद्यधिकरणम्अर्चिराद्यधिकरणम्
१1
अर्चिरादिना तत्प्रथितेः ॥ १ ॥
arcirādinā tatprathiteḥ || 1 ||
वाय्वधिकरणम्वाय्वधिकरणम्
२2
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
vāyumabdādaviśeṣaviśeṣābhyām || 2 ||
तडिदधिकरणम्तडिदधिकरणम्
३3
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
taḍito'dhi varuṇaḥ sambandhāt || 3 ||
आतिवाहिकाधिकरणम्आतिवाहिकाधिकरणम्
४4
आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
ātivāhikāstalliṅgāt || 4 ||
५5
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
ubhayavyāmohāttatsiddheḥ || 5 ||
६6
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
vaidyutenaiva tatastacchruteḥ || 6 ||
कार्याधिकरणम्कार्याधिकरणम्
७7
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
kāryaṃ bādarirasya gatyupapatteḥ || 7 ||
८8
विशेषितत्वाच्च ॥ ८ ॥
viśeṣitatvācca || 8 ||
९9
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
sāmīpyāttu tadvyapadeśaḥ || 9 ||
१०10
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
kāryātyaye tadadhyakṣeṇa sahātaḥ paramabhidhānāt || 10 ||
११11
स्मृतेश्च ॥ ११ ॥
smṛteśca || 11 ||
१२12
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
paraṃ jaiminirmukhyatvāt || 12 ||
१३13
दर्शनाच्च ॥ १३ ॥
darśanācca || 13 ||
१४14
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
na ca kārye pratipattyabhisandhiḥ || 14 ||
अप्रतीकालम्बनाधिकरणम्अप्रतीकालम्बनाधिकरणम्
१५15
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
apratīkālambanānnayatīti bādarāyaṇa ubhayathā'doṣāttatkratuśca || 15 ||
१६16
विशेषं च दर्शयति ॥ १६ ॥
viśeṣaṃ ca darśayati || 16 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya