चतुर्थः पादः
पुरुषार्थाधिकरणम्पुरुषार्थाधिकरणम्
१1
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
puruṣārtho'taḥ śabdāditi bādarāyaṇaḥ || 1 ||
२2
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminiḥ || 2 ||
३3
आचारदर्शनात् ॥ ३ ॥
ācāradarśanāt || 3 ||
४4
तच्छ्रुतेः ॥ ४ ॥
tacchruteḥ || 4 ||
५5
समन्वारम्भणात् ॥ ५ ॥
samanvārambhaṇāt || 5 ||
६6
तद्वतो विधानात् ॥ ६ ॥
tadvato vidhānāt || 6 ||
७7
नियमाच्च ॥ ७ ॥
niyamācca || 7 ||
८8
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
adhikopadeśāttu bādarāyaṇasyaivaṃ taddarśanāt || 8 ||
९9
तुल्यं तु दर्शनम् ॥ ९ ॥
tulyaṃ tu darśanam || 9 ||
१०10
असार्वत्रिकी ॥ १० ॥
asārvatrikī || 10 ||
११11
विभागः शतवत् ॥ ११ ॥
vibhāgaḥ śatavat || 11 ||
१२12
अध्ययनमात्रवतः ॥ १२ ॥
adhyayanamātravataḥ || 12 ||
१३13
नाविशेषात् ॥ १३ ॥
nāviśeṣāt || 13 ||
१४14
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
stutaye'numatirvā || 14 ||
१५15
कामकारेण चैके ॥ १५ ॥
kāmakāreṇa caike || 15 ||
१६16
उपमर्दं च ॥ १६ ॥
upamardaṃ ca || 16 ||
१७17
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
ūrdhvaretaḥsu ca śabde hi || 17 ||
परामर्शाधिकरणम्परामर्शाधिकरणम्
१८18
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
parāmarśaṃ jaiminiracodanā cāpavadati hi || 18 ||
१९19
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ || 19 ||
२०20
विधिर्वा धारणवत् ॥ २० ॥
vidhirvā dhāraṇavat || 20 ||
स्तुतिमात्राधिकरणम्स्तुतिमात्राधिकरणम्
२१21
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
stutimātramupādānāditi cennāpūrvatvāt || 21 ||
२२22
भावशब्दाच्च ॥ २२ ॥
bhāvaśabdācca || 22 ||
पारिप्लवाधिकरणम्पारिप्लवाधिकरणम्
२३23
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
pāriplavārthā iti cenna viśeṣitatvāt || 23 ||
२४24
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
tathā caikavākyatopabandhāt || 24 ||
आग्नीन्धनाद्यधिकरणम्आग्नीन्धनाद्यधिकरणम्
२५25
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
ata eva cāgnīndhanādyanapekṣā || 25 ||
सर्वापेक्षाधिकरणम्सर्वापेक्षाधिकरणम्
२६26
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
sarvāpekṣā ca yajñādiśruteraśvavat || 26 ||
सर्वान्नानुमत्यधिकरणम्सर्वान्नानुमत्यधिकरणम्
२८28
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
śamadamādyupetaḥ syāttathāpi tu tadvidhestadaṅgatayā teṣāmavaśyānuṣṭheyatvāt || 27 || sarvānnānumatiśca prāṇātyaye taddarśanāt || 28 ||
२९29
अबाधाच्च ॥ २९ ॥
abādhācca || 29 ||
३०30
अपि च स्मर्यते ॥ ३० ॥
api ca smaryate || 30 ||
३१31
शब्दश्चातोऽकामकारे ॥ ३१ ॥
śabdaścāto'kāmakāre || 31 ||
आश्रमकर्माधिकरणम्आश्रमकर्माधिकरणम्
३२32
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
vihitatvāccāśramakarmāpi || 32 ||
३३33
सहकारित्वेन च ॥ ३३ ॥
sahakāritvena ca || 33 ||
३४34
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
sarvathāpi ta evobhayaliṅgāt || 34 ||
३५35
अनभिभवं च दर्शयति ॥ ३५ ॥
anabhibhavaṃ ca darśayati || 35 ||
विधुराधिकरणम्विधुराधिकरणम्
३६36
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
antarā cāpi tu taddṛṣṭeḥ || 36 ||
३७37
अपि च स्मर्यते ॥ ३७ ॥
api ca smaryate || 37 ||
३८38
विशेषानुग्रहश्च ॥ ३८ ॥
viśeṣānugrahaśca || 38 ||
३९39
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
atastvitarajjyāyo liṅgācca || 39 ||
तद्भूताधिकरणम्तद्भूताधिकरणम्
४०40
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
tadbhūtasya tu nātadbhāvo jaiminerapi niyamātadrūpābhāvebhyaḥ || 40 ||
आधिकारिकाधिकरणम्आधिकारिकाधिकरणम्
४१41
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
na cādhikārikamapi patanānumānāttadayogāt || 41 ||
४२42
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
upapūrvamapi tveke bhāvamaśanavattaduktam || 42 ||
बहिरधिकरणम्बहिरधिकरणम्
४३43
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
bahistūbhayathāpi smṛterācārācca || 43 ||
स्वाम्यधिकरणम्स्वाम्यधिकरणम्
४४44
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
svāminaḥ phalaśruterityātreyaḥ || 44 ||
४५45
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
ārtvijyamityauḍulomistasmai hi parikrīyate || 45 ||
४६46
श्रुतेश्च ॥ ४६ ॥
śruteśca || 46 ||
सहकार्यन्तरविध्यधिकरणम्सहकार्यन्तरविध्यधिकरणम्
४७47
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat || 47 ||
४८48
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
kṛtsnabhāvāttu gṛhiṇopasaṃhāraḥ || 48 ||
४९49
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
maunavaditareṣāmapyupadeśāt || 49 ||
अनाविष्काराधिकरणम्अनाविष्काराधिकरणम्
५०50
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
anāviṣkurvannanvayāt || 50 ||
ऐहिकाधिकरणम्ऐहिकाधिकरणम्
५१51
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
aihikamapyaprastutapratibandhe taddarśanāt || 51 ||
मुक्तिफलाधिकरणम्मुक्तिफलाधिकरणम्
५२52
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ || 52 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya