द्वितीयः पादः
वागधिकरणम्वागधिकरणम्
१1
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
vāṅmanasi darśanācchabdācca || 1 ||
२2
अत एव च सर्वाण्यनु ॥ २ ॥
ata eva ca sarvāṇyanu || 2 ||
मनोऽधिकरणम्मनोऽधिकरणम्
३3
तन्मनः प्राण उत्तरात् ॥ ३ ॥
tanmanaḥ prāṇa uttarāt || 3 ||
अध्यक्षाधिकरणम्अध्यक्षाधिकरणम्
४4
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
so'dhyakṣe tadupagamādibhyaḥ || 4 ||
५5
भूतेषु तच्छ्रुतेः ॥ ५ ॥
bhūteṣu tacchruteḥ || 5 ||
६6
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
naikasmindarśayato hi || 6 ||
आसृत्युपक्रमाधिकरणम्आसृत्युपक्रमाधिकरणम्
७7
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
samānā cāsṛtyupakramādamṛtatvaṃ cānupoṣya || 7 ||
संसारव्यपदेशाधिकरणम्संसारव्यपदेशाधिकरणम्
८8
तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
tadā'pīteḥ saṃsāravyapadeśāt || 8 ||
९9
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
sūkṣmaṃ pramāṇataśca tathopalabdheḥ || 9 ||
१०10
नोपमर्देनातः ॥ १० ॥
nopamardenātaḥ || 10 ||
११11
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
asyaiva copapattereṣa ūṣmā || 11 ||
प्रतिषेधाधिकरणम्प्रतिषेधाधिकरणम्
१२12
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
pratiṣedhāditi cenna śārīrāt || 12 ||
१३13
स्पष्टो ह्येकेषाम् ॥ १३ ॥
spaṣṭo hyekeṣām || 13 ||
१४14
स्मर्यते च ॥ १४ ॥
smaryate ca || 14 ||
वागादिलयाधिकरणम्वागादिलयाधिकरणम्
१५15
तानि परे तथा ह्याह ॥ १५ ॥
tāni pare tathā hyāha || 15 ||
अविभागाधिकरणम्अविभागाधिकरणम्
१६16
अविभागो वचनात् ॥ १६ ॥
avibhāgo vacanāt || 16 ||
तदोकोऽधिकरणम्तदोकोऽधिकरणम्
१७17
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
tadoko'grajvalanaṃ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhikayā || 17 ||
रश्म्यधिकरणम्रश्म्यधिकरणम्
१८18
रश्म्यनुसारी ॥ १८ ॥
raśmyanusārī || 18 ||
१९19
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
niśi neti cenna sambandhasya yāvaddehabhāvitvāddarśayati ca || 19 ||
दक्षिणायनाधिकरणम्दक्षिणायनाधिकरणम्
२०20
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
ataścāyane'pi dakṣiṇe || 20 ||
२१21
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
yoginaḥ prati ca smaryate smārte caite || 21 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya