चतुर्थः पादः

आनुमानिकाधिकरणम्आनुमानिकाधिकरणम्

1

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca || 1 ||

2

सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
sūkṣmaṃ tu tadarhatvāt || 2 ||

3

तदधीनत्वादर्थवत् ॥ ३ ॥
tadadhīnatvādarthavat || 3 ||

4

ज्ञेयत्वावचनाच्च ॥ ४ ॥
jñeyatvāvacanācca || 4 ||

5

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
vadatīti cenna prājño hi prakaraṇāt || 5 ||

6

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
trayāṇāmeva caivamupanyāsaḥ praśnaśca || 6 ||

7

महद्वच्च ॥ ७ ॥
mahadvacca || 7 ||

चमसाधिकरणम्चमसाधिकरणम्

8

चमसवदविशेषात् ॥ ८ ॥
camasavadaviśeṣāt || 8 ||

9

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
jyotirupakramā tu tathā hyadhīyata eke || 9 ||

१०10

कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
kalpanopadeśācca madhvādivadavirodhaḥ || 10 ||

सङ्ख्योपसङ्ग्रहाधिकरणम्सङ्ख्योपसङ्ग्रहाधिकरणम्

११11

न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
na saṅkhyopasaṅgrahādapi nānābhāvādatirekācca || 11 ||

१२12

प्राणादयो वाक्यशेषात् ॥ १२ ॥
prāṇādayo vākyaśeṣāt || 12 ||

१३13

ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
jyotiṣaikeṣāmasatyanne || 13 ||

कारणत्वाधिकरणम्कारणत्वाधिकरणम्

१४14

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ || 14 ||

१५15

समाकर्षात् ॥ १५ ॥
samākarṣāt || 15 ||

बालाक्यधिकरणम्बालाक्यधिकरणम्

१६16

जगद्वाचित्वात् ॥ १६ ॥
jagadvācitvāt || 16 ||

१७17

जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
jīvamukhyaprāṇaliṅgānneti cettadvyākhyātam || 17 ||

१८18

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyāmapi caivameke || 18 ||

वाक्यान्वयाधिकरणम्वाक्यान्वयाधिकरणम्

१९19

वाक्यान्वयात् ॥ १९ ॥
vākyānvayāt || 19 ||

२०20

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
pratijñāsiddherliṅgamāśmarathyaḥ || 20 ||

२१21

उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ २१ ॥
utkramiṣyata evambhāvādityauḍulomiḥ || 21 ||

२२22

अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
avasthiteriti kāśakṛtsnaḥ || 22 ||

प्रकृत्यधिकरणम्प्रकृत्यधिकरणम्

२३23

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
prakṛtiśca pratijñādṛṣṭāntānuparodhāt || 23 ||

२४24

अभिध्योपदेशाच्च ॥ २४ ॥
abhidhyopadeśācca || 24 ||

२५25

साक्षाच्चोभयाम्नानात् ॥ २५ ॥
sākṣāccobhayāmnānāt || 25 ||

२६26

आत्मकृतेः परिणामात् ॥ २६ ॥
ātmakṛteḥ pariṇāmāt || 26 ||

२७27

योनिश्च हि गीयते ॥ २७ ॥
yoniśca hi gīyate || 27 ||

सर्वव्याख्यानाधिकरणम्सर्वव्याख्यानाधिकरणम्

२८28

एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
etena sarve vyākhyātā vyākhyātāḥ || 28 ||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya