तृतीयः पादः

द्युभ्वाद्यधिकरणम्द्युभ्वाद्यधिकरणम्

1

द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
dyubhvādyāyatanaṃ svaśabdāt || 1 ||

2

मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
muktopasṛpyavyapadeśāt || 2 ||

3

नानुमानमतच्छब्दात् ॥ ३ ॥
nānumānamatacchabdāt || 3 ||

4

प्राणभृच्च ॥ ४ ॥
prāṇabhṛcca || 4 ||

5

भेदव्यपदेशात् ॥ ५ ॥
bhedavyapadeśāt || 5 ||

6

प्रकरणात् ॥ ६ ॥
prakaraṇāt || 6 ||

7

स्थित्यदनाभ्यां च ॥ ७ ॥
sthityadanābhyāṃ ca || 7 ||

भूमाधिकरणम्भूमाधिकरणम्

8

भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
bhūmā samprasādādadhyupadeśāt || 8 ||

9

धर्मोपपत्तेश्च ॥ ९ ॥
dharmopapatteśca || 9 ||

अक्षराधिकरणम्अक्षराधिकरणम्

१०10

अक्षरमम्बरान्तधृतेः ॥ १० ॥
akṣaramambarāntadhṛteḥ || 10 ||

११11

सा च प्रशासनात् ॥ ११ ॥
sā ca praśāsanāt || 11 ||

१२12

अन्यभावव्यावृत्तेश्च ॥ १२ ॥
anyabhāvavyāvṛtteśca || 12 ||

ईक्षतिकर्माधिकरणम्ईक्षतिकर्माधिकरणम्

१३13

ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
īkṣatikarmavyapadeśātsaḥ || 13 ||

दहराधिकरणम्दहराधिकरणम्

१४14

दहर उत्तरेभ्यः ॥ १४ ॥
dahara uttarebhyaḥ || 14 ||

१५15

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca || 15 ||

१६16

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
dhṛteśca mahimno'syāsminnupalabdheḥ || 16 ||

१७17

प्रसिद्धेश्च ॥ १७ ॥
prasiddheśca || 17 ||

१८18

इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
itaraparāmarśātsa iti cennāsambhavāt || 18 ||

१९19

उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
uttarāccedāvirbhūtasvarūpastu || 19 ||

२०20

अन्यार्थश्च परामर्शः ॥ २० ॥
anyārthaśca parāmarśaḥ || 20 ||

२१21

अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
alpaśruteriti cettaduktam || 21 ||

अनुकृत्यधिकरणम्अनुकृत्यधिकरणम्

२२22

अनुकृतेस्तस्य च ॥ २२ ॥
anukṛtestasya ca || 22 ||

२३23

अपि च स्मर्यते ॥ २३ ॥
api ca smaryate || 23 ||

प्रमिताधिकरणम्प्रमिताधिकरणम्

२४24

शब्दादेव प्रमितः ॥ २४ ॥
śabdādeva pramitaḥ || 24 ||

२५25

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
hṛdyapekṣayā tu manuṣyādhikāratvāt || 25 ||

देवताधिकरणम्देवताधिकरणम्

२६26

तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
taduparyapi bādarāyaṇaḥ sambhavāt || 26 ||

२७27

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
virodhaḥ karmaṇīti cennānekapratipatterdarśanāt || 27 ||

२८28

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām || 28 ||

२९29

अत एव च नित्यत्वम् ॥ २९ ॥
ata eva ca nityatvam || 29 ||

३०30

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca || 30 ||

३१31

मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
madhvādiṣvasambhavādanadhikāraṃ jaiminiḥ || 31 ||

३२32

ज्योतिषि भावाच्च ॥ ३२ ॥
jyotiṣi bhāvācca || 32 ||

३३33

भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
bhāvaṃ tu bādarāyaṇo'sti hi || 33 ||

अपशूद्राधिकरणम्अपशूद्राधिकरणम्

३४34

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi || 34 ||

३५35

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
kṣatriyatvagateścottaratra caitrarathena liṅgāt || 35 ||

३६36

संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
saṃskāraparāmarśāttadabhāvābhilāpācca || 36 ||

३७37

तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
tadabhāvanirdhāraṇe ca pravṛtteḥ || 37 ||

३८38

श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
śravaṇādhyayanārthapratiṣedhātsmṛteśca || 38 ||

कम्पनाधिकरणम्कम्पनाधिकरणम्

३९39

कम्पनात् ॥ ३९ ॥
kampanāt || 39 ||

ज्योतिरधिकरणम्ज्योतिरधिकरणम्

४०40

ज्योतिर्दर्शनात् ॥ ४० ॥
jyotirdarśanāt || 40 ||

अर्थान्तरत्वादिव्यपदेशाधिकरणम्अर्थान्तरत्वादिव्यपदेशाधिकरणम्

४१41

आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
ākāśo'rthāntaratvādivyapadeśāt || 41 ||

सुषुप्त्युत्क्रान्त्यधिकरणम्सुषुप्त्युत्क्रान्त्यधिकरणम्

४२42

सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
suṣuptyutkrāntyorbhedena || 42 ||

४३43

पत्यादिशब्देभ्यः ॥ ४३ ॥
patyādiśabdebhyaḥ || 43 ||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya