प्रथमः पादः

आवृत्त्यधिकरणम्आवृत्त्यधिकरणम्

1

आवृत्तिरसकृदुपदेशात् ॥ १ ॥
āvṛttirasakṛdupadeśāt || 1 ||

2

लिङ्गाच्च ॥ २ ॥
liṅgācca || 2 ||

आत्मत्वोपासनाधिकरणम्आत्मत्वोपासनाधिकरणम्

3

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
ātmeti tūpagacchanti grāhayanti ca || 3 ||

प्रतीकाधिकरणम्प्रतीकाधिकरणम्

4

न प्रतीके न हि सः ॥ ४ ॥
na pratīke na hi saḥ || 4 ||

ब्रह्मदृष्ट्यधिकरणम्ब्रह्मदृष्ट्यधिकरणम्

5

ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
brahmadṛṣṭirutkarṣāt || 5 ||

आदित्यादिमत्यधिकरणम्आदित्यादिमत्यधिकरणम्

6

आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
ādityādimatayaścāṅga upapatteḥ || 6 ||

आसीनाधिकरणम्आसीनाधिकरणम्

7

आसीनः सम्भवात् ॥ ७ ॥
āsīnaḥ sambhavāt || 7 ||

8

ध्यानाच्च ॥ ८ ॥
dhyānācca || 8 ||

9

अचलत्वं चापेक्ष्य ॥ ९ ॥
acalatvaṃ cāpekṣya || 9 ||

१०10

स्मरन्ति च ॥ १० ॥
smaranti ca || 10 ||

एकाग्रताधिकरणम्एकाग्रताधिकरणम्

११11

यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
yatraikāgratā tatrāviśeṣāt || 11 ||

आप्रायणाधिकरणम्आप्रायणाधिकरणम्

१२12

आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
ā prāyaṇāttatrāpi hi dṛṣṭam || 12 ||

तदधिगमाधिकरणम्तदधिगमाधिकरणम्

१३13

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāt || 13 ||

इतरासंश्लेषाधिकरणम्इतरासंश्लेषाधिकरणम्

१४14

इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
itarasyāpyevamasaṃśleṣaḥ pāte tu || 14 ||

अनारब्धाधिकरणम्अनारब्धाधिकरणम्

१५15

अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
anārabdhakārye eva tu pūrve tadavadheḥ || 15 ||

अग्निहोत्राद्यधिकरणम्अग्निहोत्राद्यधिकरणम्

१६16

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
agnihotrādi tu tatkāryāyaiva taddarśanāt || 16 ||

१७17

अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥
ato'nyāpi hyekeṣāmubhayoḥ || 17 ||

विद्याज्ञानसाधनत्वाधिकरणम्विद्याज्ञानसाधनत्वाधिकरणम्

१८18

यदेव विद्ययेति हि ॥ १८ ॥
yadeva vidyayeti hi || 18 ||

इतरक्षपणाधिकरणम्इतरक्षपणाधिकरणम्

१९19

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
bhogena tvitare kṣapayitvā sampadyate || 19 ||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya