प्रथमोऽध्यायः
१1
धृतराष्ट्र उवाच —
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
dhṛtarāṣṭra uvāca —
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 ||
तत्र धृतराष्ट्र उवाचेति वैशम्पायनवाक्यं जन्मेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भितो धृतराष्ट्र: पप्रच्छ स्वपुत्रजयकारणमाशंसन्— युयुत्सवो योद्धुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगता मामका मदीया दुर्योधनादयः पाण्डवाश्च युधिष्तिरादयः किमकुर्वत कि कृतवन्तः ? किं पूर्वोद्धूतयुयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचित्रिमित्तेन युयुत्सानिवृत्याऽन्यदेव किंचित्कृतवन्त: ?
भीष्मार्जुनादिवीरपुरुषनिमित्त दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव। अदृष्टभयमपि दर्शयितुमाह— धर्मक्षेत्र इति । धर्मस्य पूर्वमविद्यमानस्योत्पत्तेर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्र यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम्। बृहस्पतिरुवाच याज्ञवल्क्यं “यदनुकुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्” इति जाबालश्रुतेः, “कुरुक्षेत्र वै देववजनम्” इति शतपथश्रुतेश्च । तस्मिन्गता: पाण्डवा: पूर्वमेव धार्मिका यदि पक्षद्वयहिंसानिमित्तादधर्माद्भिता निवर्तेरंस्ततः प्राप्तराज्या एव मत्पुत्रा: । अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिच्चित्तप्रसादः स्यात्तदा च तेऽनुतप्ता: कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनाऽपि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यालाभे च दृढ़तरमुपायमपश्यतो महानुद्वेग एव प्रश्नवीजम् । सञ्जयेति च संबोधन रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीय॑ त्वयेति सूचनार्थम् । मामकाः किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथङ्निर्दिश्य पाण्डवेषु ममकाराभावप्रदर्शनेन तद्द्रोहमभिव्यनक्ति ॥ १ ॥
एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य सञ्जयस्यातिधार्मिकस्य प्रतिवचमवतारयति वैशम्पायनः—
२2
सञ्जय उवाच —
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
sañjaya uvāca —
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 2 ||
तत्र पाण्डवानां दृष्टभयसंभावनाऽपि नास्ति अदृष्टभयं तु भ्रान्त्याऽर्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षः तु शब्देन द्योत्यते । स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु मा ग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति— दृष्ट्वेति ।
पाण्डुसुतानां अनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टयुम्नादिभि: स्थापितं दृष्ट्वा चाक्षुषज्ञानविषयीकृत्य तदा सङ्ग्रामोद्यमकाल आचार्यं द्रोणनामानं धनुर्विद्यासंप्रदायप्रवर्तयितारं उपसंगम्य स्वयमेव तत्समीपं गत्वा न तु स्वसमीपे तमाहूय । एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते । भयेन स्वरक्षार्थं तत्समीपगमनेऽपि आचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह— राजेति । आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे संक्रमितुं, वचनमात्रमेवाब्रवीन्न तु कंचिदर्थमिति वा ॥ २ ॥
तदेव वाक्यविशेषरूपं वचनमुदाहरति— पश्यैताम्(@BG, 1.3) इत्यादिना तस्य संजनयन् हर्षम्(@BG, 1.12) इत्यत: प्राक्तनेन । पाण्डवेषु प्रियशिष्येष्वतिस्निग्धहृदयत्वादाचार्यो युद्धं न करिष्यतीति संभाव्य तस्मिन्परेषामवज्ञां विज्ञापयंस्तस्य क्रोधातिशयमुत्पादयितुमाह—
३3
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 ||
एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपुत्राणां चमूं महतीं अनेकाक्षौहिणीसहितत्वेन दुर्निवारां पश्य अपरोक्षीकुरु । प्रार्थनायां लोट् । अहं शिष्यत्वात्त्वामाचार्यं प्रार्थय इत्याह— आचार्येति । दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीति भाव: ।
ननु तदीयावज्ञा सोढव्यैवास्माभि: प्रतिकर्तुमशक्यत्वादित्याशङ्क्य तन्निरसनं तव सुकरमेवेत्याह— व्यूढां तव शिष्येणेति । शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव । व्यूढां तु धृष्टद्युम्नेनेत्यनुक्त्वा द्रुपदपुत्रेण इतिकथनं द्रुपदपूर्ववैरसूचनेन क्रोधोद्दीपनार्थम् । धीमतेति पदमनुपेक्षणीयत्वसूचनार्थम् । व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनम् ।
अन्यच्च हे पाण्डुपुत्राणामाचार्य न तु मम तेषु स्नेहातिशयात् । द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाऽध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति । शत्रोस्तव सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम् । अत एव तच्चमूदर्शनेनाऽऽनन्दस्तवैव भविष्यति भ्रान्तत्वात्, नान्यस्य कस्यचिदपि यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति तत्सैन्यं प्रदर्शयन्निगूढं द्वेषं द्योतयति । एवं च यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥
नन्वेकेन द्रुपदपुत्रेणाप्रसिद्वेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह— अत्र शूरा इत्यादिभिस्त्रिभिः ।
४4
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || 4 ||
न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूरा: सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः । शूरानेव विशिनष्टि— महेष्वासा इति । महान्तो अन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव परसैन्यविद्रावणकुशला इति भावः । महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह— युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिपन्नपराक्रमाभ्यां समाः तुल्याः । तानेवाऽऽह- युयुधान इत्यादिना महारथा इत्यन्तेन । युयुधानः सात्यकि: । द्रपदश्च महारथ इत्येक: । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति ॥ ४ ॥
५5
धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ || 5 ||
धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैव्यानां विशेषणं नरपुङ्गव इति ॥ ५ ॥
६6
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || 6 ||
विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि । सौभद्रो अभिमन्यु: । द्रौपदेयाः च द्रौपदीपुत्रा: प्रतिविन्ध्यादय: पञ्च । चकाराद् अन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिता: ।
ये गणिता: सप्तदशान्येऽपि तदीया: सर्व एव महारथा: सर्वेऽपि महारथा एवं नैकोऽपि रथोऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपलक्षणम् । तल्लक्षणं च—
“एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः । रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृत: ॥” इति ॥ ६ ॥
यद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि सन्धिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याऽऽह—
७7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi te || 7 ||
तु शब्देनान्तरुत्पन्नमपि भय तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं सर्वेषां मध्ये ये विशिष्टा: सर्वेभ्यः समुत्कर्षजुषः तान् मयोच्यमानान् निबोध निश्चयेन मदचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम् । ये च मम सैन्यस्य नायका मुख्या नेतारस्तान् संज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥
तत्र विशिष्टान्गणयति—
८8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ८ ॥
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ || 8 ||
भवान् द्रोणो भीष्म: कर्ण: कृपश्च । समिति सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम् । एते चत्वार: सर्वतो विशिष्टा: ।
नायकान्गणयति— अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्षयाऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्युत्रस्य प्रथमगणनमाचार्यपरितोषार्थम् । विकर्ण: स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्र: श्रेष्ठत्वाद्भूरिश्रवा: । जयद्रथ: सिन्धुराजस्तथैव चेति कचित्पाठ: ॥ ८ ॥
किमेतावन्त एवं नायका नेत्याह—
९9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 9 ||
अन्ये च शल्यकृतवर्मप्रभूतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते । एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्ति: शौर्यं युद्धोयोगो युद्धकोशल च दर्शितं शूरा इत्यादिविशेषणैः ॥ ९ ॥
राजा पुनरपि सैन्यद्वयसाम्यमाशङ्क्य स्वसैन्याधिक्यमावेदयति—
१०10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam || 10 ||
अपर्याप्तं अनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाऽभितः सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिषठितमस्माकं बलम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्वान्न्यूनं भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयो भविष्यतीत्यमिप्राय: ।
अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकमस्मभ्यम् । कीदृशं तद्भिष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थ: । तत्पाण्डवबलं भीष्माभिरक्षितम् । इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थम् । भीमोऽतिदुर्बलहृदयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितम् । यस्माद्धीमोऽत्ययोग्य एवैतन्निवृत्त्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः ॥ १० ॥
एवं चेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसीत्यत आह—
११11
अयनेषु तु सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
ayaneṣu tu sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || 11 ||
(सम्पादकस्य टिप्पणी - अत्र तु शब्दस्य पाठभेदः च अस्ति)
कर्तव्यविशेषद्योती तु शब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्र अयनानि उच्यन्ते । सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तत्रैवं सति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्य अवस्थिताः सन्तो भवन्तः सर्वेपि युद्धाभिनिवेशात्पुरत: पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु । भीष्मे हि सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः ॥ ११ ॥
स्तौतु वा निन्दतु वा एतदर्थे देह: पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव सिहनादं शद्ववाद्यं च कारितवानित्याह—
१२12
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || 12 ||
१३13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumulo'bhavat || 13 ||
१४14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 14 ||
१५15
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || 15 ||
१६16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || 16 ||
१७17
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || 17 ||
१८18
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || 18 ||
१९19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || 19 ||
२०20
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ || 20 ||
२१21
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच —
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |
arjuna uvāca —
senayorubhayormadhye rathaṃ sthāpaya me'cyuta || 21 ||
२२22
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥
yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || 22 ||
२३23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || 23 ||
२४24
सञ्जय उवाच —
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
sañjaya uvāca —
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || 24 ||
२५25
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || 25 ||
२६26
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān |
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā || 26 ||
२७27
श्वशुरान्सुहृदश्चैवसेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
śvaśurānsuhṛdaścaivasenayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || 27 ||
२८28
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच —
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समुपस्थितान् ॥ २८ ॥
kṛpayā parayāviṣṭo viṣīdannidamabravīt |
arjuna uvāca —
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān || 28 ||
२९29
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || 29 ||
३०30
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || 30 ||
३१31
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave || 31 ||
३२32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || 32 ||
३३33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || 33 ||
३४34
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā || 34 ||
३५35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥
etānna hantumicchāmi ghnato'pi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || 35 ||
३६36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || 36 ||
३७37
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 37 ||
३८38
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || 38 ||
३९39
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || 39 ||
४०40
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta || 40 ||
४१41
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || 41 ||
४२42
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || 42 ||
४३43
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥
doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || 43 ||
४४44
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma || 44 ||
४५45
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ || 45 ||
४६46
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || 46 ||
४७47
सञ्जय उवाच —
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥
sañjaya uvāca —
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ || 47 ||
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvaṇi
śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ ||