सप्तमोऽध्यायः

‘योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः’ (भ. गी. ६ । ४७) इति प्रश्नबीजम् उपन्यस्य, स्वयमेव ‘ईदृशं मदीयं तत्त्वम् , एवं मद्गतान्तरात्मा स्यात्’ इत्येतत् विवक्षुः श्रीभगवानुवाच —

1

श्रीभगवानुवाच —

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।  
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
śrībhagavānuvāca —

mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |  
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu || 1 ||

मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः मय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन् , मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः । यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं कर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते, अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् साधनान्तरं मय्येव आसक्तमनाः भवति । यः त्वं एवम्भूतः सन् असंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण ‘एवमेव भगवान्’ इति, तत् शृणु उच्यमानं मया ॥ १ ॥

2

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।  
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ |  
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate || 2 ||

ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्‌त्स्न्येन । तत् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय — यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते नावशिष्टं भवति । इति मत्तत्त्वज्ञो यः, सः सर्वज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम् ॥ २ ॥

3

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।  
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye |  
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ || 3 ||

मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम् । तेषां यततामपि सिद्धानाम् , सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चित् एव हि मां वेत्ति तत्त्वतः यथावत् ॥ ३ ॥

4

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।  
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |  
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā || 4 ||

भूमिः इति पृथिवीतन्मात्रमुच्यते, न स्थूला, ‘भिन्ना प्रकृतिरष्टधा’ इति वचनात् । तथा अबादयोऽपि तन्मात्राण्येव उच्यन्ते — आपः अनलः वायुः खम् । मनः इति मनसः कारणमहङ्कारो गृह्यते । बुद्धिः इति अहङ्कारकारणं महत्तत्त्वम् । अहङ्कारः इति अविद्यासंयुक्तमव्यक्तम् । यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहङ्कारवासनावत् अव्यक्तं मूलकारणमहङ्कार इत्युच्यते, प्रवर्तकत्वात् अहङ्कारस्य । अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके । इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्ना भेदमागता ॥ ४ ॥

5

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।  
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |  
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || 5 ||

अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या इदं धार्यते जगत् अन्तः प्रविष्टया ॥ ५ ॥

6

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।  
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥
etadyonīni bhūtāni sarvāṇītyupadhāraya |  
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā || 6 ||

एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषां भूतानां तानि एतद्योनीनि, भूतानि सर्वाणि इति एवम् उपधारय जानीहि । यस्मात् मम प्रकृती योनिः कारणं सर्वभूतानाम् , अतः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा । प्रकृतिद्वयद्वारेण अहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः ॥ ६ ॥

7

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।  
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya |  
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva || 7 ||

मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किञ्चित् नास्ति न विद्यते, अहमेव जगत्कारणमित्यर्थः, हे धनञ्जय । यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितमित्यर्थ, दीर्घतन्तुषु पटवत् , सूत्रे च मणिगणा इव ॥ ७ ॥

8

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।  
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ |  
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || 8 ||

रसः अहम् , अपां यः सारः स रसः, तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओङ्कारः सर्ववेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुम्बुद्धिः नृषु, तस्मिन् मयि पुरुषाः प्रोताः ॥ ८ ॥

9

पुण्यो गन्धः पृथिव्यां च  
तेजश्चास्मि विभावसौ ।  
जीवनं सर्वभूतेषु  
तपश्चास्मि तपस्विषु ॥ ९ ॥
puṇyo gandhaḥ pṛthivyāṃ ca  
tejaścāsmi vibhāvasau |  
jīvanaṃ sarvabhūteṣu  
tapaścāsmi tapasviṣu || 9 ||

पुण्यः सुरभिः गन्धः पृथिव्यां च अहम् , तस्मिन् मयि गन्धभूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम् । अपुण्यत्वं तु गन्धादीनाम् अविद्याधर्माद्यपेक्षं संसारिणां भूतविशेषसंसर्गनिमित्तं भवति । तेजश्च दीप्तिश्च अस्मि विभावसौ अग्नौ । तथा जीवनं सर्वभूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम् । तपश्च अस्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः ॥ ९ ॥

१०10

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।  
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |  
buddhirbuddhimatāmasmi tejastejasvināmaham || 10 ||

बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं चिरन्तनम् । किञ्च, बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम् अस्मि, तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम् ॥ १० ॥

११11

बलं बलवतां चाहं कामरागविवर्जितम् ।  
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |  
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha || 11 ||

बलं सामर्थ्यम् ओजो बलवताम् अहम् , तच्च बलं कामरागविवर्जितम् , कामश्च रागश्च कामरागौ — कामः तृष्णा असन्निकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु — ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् । किञ्च — धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिविषयः, स कामः अस्मि हे भरतर्षभ ॥ ११ ॥

१२12

ये चैव सात्त्विका भावा राजसास्तमसाश्च ये ।  
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥
ye caiva sāttvikā bhāvā rājasāstamasāśca ye |  
matta eveti tānviddhi na tvahaṃ teṣu te mayi || 12 ||

ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावाः पदार्थाः, राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च, ये केचित् प्राणिनां स्वकर्मवशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तानेव । यद्यपि ते मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः, यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥ १२ ॥

१३13

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।  
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |  
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam || 13 ||

त्रिभिः गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैः भावैः पदार्थैः एभिः यथोक्तैः सर्वम् इदं प्राणिजातं जगत् मोहितम् अविवेकितामापादितं सत् न अभिजानाति माम् , एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च अव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितम् इत्यर्थः ॥ १३ ॥

१४14

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।  
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
daivī hyeṣā guṇamayī mama māyā duratyayā |  
māmeva ye prapadyante māyāmetāṃ taranti te || 14 ||

दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यया । तत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति ; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥ १४ ॥

१५15

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।  
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |  
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ || 15 ||

न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । ते च मायया अपहृतज्ञानाः सम्मुषितज्ञानाः आसुरं भावं हिंसानृतादिलक्षणम् आश्रिताः ॥ १५ ॥

१६16

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।  
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |  
ārto jijñāsurarthārthī jñānī ca bharatarṣabha || 16 ||

चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुन । आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्वविच्च हे भरतर्षभ ॥ १६ ॥

१७17

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।  
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate |  
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ || 17 ||

तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्ववित्त्वात् नित्ययुक्तः भवति एकभक्तिश्च, अन्यस्य भजनीयस्य अदर्शनात् ; अतः स एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यते इत्यर्थः । प्रियो हि यस्मात् अहम् आत्मा ज्ञानिनः, अतः तस्य अहम् अत्यर्थं प्रियः ; प्रसिद्धं हि लोके ‘आत्मा प्रियो भवति’ इति । तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थं प्रियः ॥ १७ ॥

१८18

उदाराः सर्व एवैते  
ज्ञानी त्वात्मैव मे मतम् ।  
आस्थितः स हि युक्तात्मा  
मामेवानुत्तमां गतिम् ॥ १८ ॥
udārāḥ sarva evaite  
jñānī tvātmaiva me matam |  
āsthitaḥ sa hi yuktātmā  
māmevānuttamāṃ gatim || 18 ||

उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः । न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति । ज्ञानी तु अत्यर्थं प्रियो भवतीति विशेषः । तत् कस्मात् इत्यत आह — ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं निश्चयः । आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् ‘अहमेव भगवान् वासुदेवः न अन्योऽस्मि’ इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गन्तुं प्रवृत्त इत्यर्थः ॥ १८ ॥

१९19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।  
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate |  
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || 19 ||

बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, ‘मनुष्याणां सहस्रेषु’ (भ. गी. ७ । ३) इति हि उक्तम् ॥ १९ ॥

२०20

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।  
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ |  
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā || 20 ||

कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः ; तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया आत्मीयया ॥ २० ॥

२१21

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।  
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati |  
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham || 21 ||

यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि ॥ २१ ॥

२२22

स तया श्रद्धया युक्तस्तस्या राधनमीहते ।  
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥
sa tayā śraddhayā yuktastasyā rādhanamīhate |  
labhate ca tataḥ kāmānmayaiva vihitānhi tān || 22 ||

स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते । लभते च ततः तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान् , हि यस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः । ‘हितान्’ इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् ; न हि कामा हिताः कस्यचित् ॥ २२ ॥

२३23

अन्तवत्तु फलं तेषां  
तद्भवत्यल्पमेधसाम् ।  
देवान्देवयजो यान्ति  
मद्भक्ता यान्ति मामपि ॥ २३ ॥
antavattu phalaṃ teṣāṃ  
tadbhavatyalpamedhasām |  
devāndevayajo yānti  
madbhaktā yānti māmapi || 23 ||

अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां अल्पप्रज्ञानाम् । देवान्देवयजो यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति मामपि । एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय, अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥ २३ ॥

२४24

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।  
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |  
paraṃ bhāvamajānanto mamāvyayamanuttamam || 24 ||

अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तम् अबुद्धयः अविवेकिनः परं भावं परमात्मस्वरूपम् अजानन्तः अविवेकिनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं भावमजानन्तः मन्यन्ते इत्यर्थः ॥ २४ ॥

२५25

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।  
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |  
mūḍho'yaṃ nābhijānāti loko māmajamavyayam || 25 ||

न अहं प्रकाशः सर्वस्य लोकस्य, केषाञ्चिदेव मद्भक्तानां प्रकाशः अहमित्यभिप्रायः । योगमायासमावृतः योगः गुणानां युक्तिः घटनं सैव माया योगमाया, तया योगमायया समावृतः, सञ्छन्नः इत्यर्थः । अत एव मूढो लोकः अयं न अभिजानाति माम् अजम् अव्ययम् ॥

यया योगमायया समावृतं मां लोकः नाभिजानाति, नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति, यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत् ॥ २५ ॥

२६26

वेदाहं समतीतानि वर्तमानानि चार्जुन ।  
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
vedāhaṃ samatītāni vartamānāni cārjuna |  
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || 26 ||

अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि च अर्जुन, भविष्याणि च भूतानि वेद अहम् । मां तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा ; मत्तत्त्ववेदनाभावादेव न मां भजते ॥ २६ ॥

२७27

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।  
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥
icchādveṣasamutthena dvandvamohena bhārata |  
sarvabhūtāni sammohaṃ sarge yānti parantapa || 27 ||

इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन । केनेति विशेषापेक्षायामिदमाह — द्वन्द्वमोहेन द्वन्द्वनिमित्तः मोहः द्वन्द्वमोहः तेन । तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेते । यत्र यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसम्प्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं मोहं जनयतः । न हि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानमुत्पद्यते बहिरपि ; किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः सम्मूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति । अतः तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि सम्मोहितानि सन्ति सम्मोहं सम्मूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत् , यान्ति गच्छन्ति हे परन्तप । मोहवशान्येव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायः । यतः एवम् , अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि सम्मोहितानि मामात्मभूतं न जानन्ति ; अत एव आत्मभावे मां न भजन्ते ॥ २७ ॥

२८28

येषां त्वन्तगतं पापं  
जनानां पुण्यकर्मणाम् ।  
ते द्वन्द्वमोहनिर्मुक्ता  
भजन्ते मां दृढव्रताः ॥ २८ ॥
yeṣāṃ tvantagataṃ pāpaṃ  
janānāṃ puṇyakarmaṇām |  
te dvandvamohanirmuktā  
bhajante māṃ dṛḍhavratāḥ || 28 ||

येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणाम् , ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः । ‘एवमेव परमार्थतत्त्वं नान्यथा’ इत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढव्रताः उच्यन्ते ॥ २८ ॥

२९29

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।  
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
jarāmaraṇamokṣāya māmāśritya yatanti ye |  
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam || 29 ||

जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत् ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः ॥ २९ ॥

३०30

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।  
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ |  
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ || 30 ||

साधिभूताधिदैवम् अधिभूतं च अधिदैवं च अधिभूताधिदैवम् , सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवं च मां ये विदुः, साधियज्ञं च सह अधियज्ञेन साधियज्ञं ये विदुः, प्रयाणकाले मरणकाले अपि च मां ते विदुः युक्तचेतसः समाहितचित्ता इति ॥ ३० ॥


इति श्रीमत्परमहंसपरिवारजकाचार्यस्य श्रीगोविन्दभगवत्पूजयपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः
॥
iti śrīmatparamahaṃsaparivārajakācāryasya śrīgovindabhagavatpūjayapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye saptamo'dhyāyaḥ
||