चतुर्थोऽध्यायः

योऽयं योगः अध्यायद्वयेनोक्तः ज्ञाननिष्ठालक्षणः , ससन्न्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः परिसमाप्तः, प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च, गीतासु च सर्वासु अयमेव योगो विवक्षितो भगवता । अतः परिसमाप्तं वेदार्थं मन्वानः तं वंशकथनेन स्तौति श्रीभगवान् —

1

श्रीभगवानुवाच —

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।  
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥
śrībhagavānuvāca —

imaṃ vivasvate yogaṃ proktavānahamavyayam |  
vivasvānmanave prāha manurikṣvākave'bravīt || 1 ||

इमम् अध्यायद्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहं जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुम् । ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम् । अव्ययम् अव्ययफलत्वात् । न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥ १ ॥

2

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।  
स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥
evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |  
sa kāleneha mahatā yogo naṣṭaḥ parantapa || 2 ||

एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयः राजानश्च ते ऋषयश्च राजर्षयः विदुः इमं योगम् । स योगः कालेन इह महता दीर्घेण नष्टः विच्छिन्नसम्प्रदायः संवृत्तः । हे परन्तप, आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्यतेजोगभस्तिभिः भानुरिव तापयतीति परन्तपः शत्रुतापन इत्यर्थः ॥ २ ॥

3

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।  
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ |  
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam || 3 ||

स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः भक्तः असि मे सखा

च असि इति । रहस्यं हि यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥ ३ ॥

4

अर्जुन उवाच —

अपरं भवतो जन्म परं जन्म विवस्वतः ।  
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
arjuna uvāca —

aparaṃ bhavato janma paraṃ janma vivasvataḥ |  
kathametadvijānīyāṃ tvamādau proktavāniti || 4 ||

अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म । परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य । तत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया, यः त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति ॥ ४ ॥

5

श्रीभगवानुवाच —

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।  
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥
śrībhagavānuvāca —

bahūni me vyatītāni janmāni tava cārjuna |  
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa || 5 ||

बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन । तानि अहं वेद जाने सर्वाणि न त्वं वेत्थ न जानीषे, धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात् । अहं पुनः नित्यशुद्धबुद्धमुक्तस्वभावत्वात् अनावरणज्ञानशक्तिरिति वेद अहं हे परन्तप ॥ ५ ॥

6

अजोऽपि सन्नव्ययात्मा  
भूतानामीश्वरोऽपि सन् ।  
प्रकृतिं स्वामधिष्ठाय  
सम्भवाम्यात्ममायया ॥ ६ ॥
ajo'pi sannavyayātmā  
bhūtānāmīśvaro'pi san |  
prakṛtiṃ svāmadhiṣṭhāya  
sambhavāmyātmamāyayā || 6 ||

अजोऽपि जन्मरहितोऽपि सन् , तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोऽपि सन् , तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलोऽपि सन् , प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत् वर्तते, यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति, तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवानिव भवामि जात इव आत्ममायया आत्मनः मायया, न परमार्थतो लोकवत् ॥ ६ ॥

7

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।  
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥
yadā yadā hi dharmasya glānirbhavati bhārata |  
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || 7 ||

यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्थानम् उद्भवः अधर्मस्य, तदा तदा आत्मानं सृजामि अहं मायया ॥ ७ ॥

8

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।  
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |  
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 8 ||

परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम् , विनाशाय च दुष्कृतां पापकारिणाम् , किञ्च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं तदर्थं सम्भवामि युगे युगे प्रतियुगम् ॥ ८ ॥

9

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।  
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥
janma karma ca me divyamevaṃ yo vetti tattvataḥ |  
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna || 9 ||

जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वतः तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न एति न प्राप्नोति । माम् एति आगच्छति सः मुच्यते हे अर्जुन ॥ ९ ॥

१०10

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।  
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
vītarāgabhayakrodhā manmayā māmupāśritāḥ |  
bahavo jñānatapasā pūtā madbhāvamāgatāḥ || 10 ||

वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः । इतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् ‘ज्ञानतपसा’ इति विशेषणम् ॥ १० ॥

११11

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।  
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |  
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 11 ||

ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृह्णामि अहम् इत्येतत् । तेषां मोक्षं प्रति अनर्थित्वात् । न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति । अतः ये फलार्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः सन्न्यासिनः मुमुक्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः । न पुनः रागद्वेषनिमित्तं मोहनिमित्तं वा कञ्चित् भजामि । सर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः — यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते — हे पार्थ सर्वशः सर्वप्रकारैः ॥ ११ ॥

१२12

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।  
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |  
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā || 12 ||

काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तः यजन्ते इह अस्मिन् लोके देवताः इन्द्राग्न्याद्याः ; ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः । तेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके, मनुष्यलोके हि शास्त्राधिकारः । ‘क्षिप्रं हि मानुषे लोके’ इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् । मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेषः, तेषां च वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति । कर्मजा कर्मणो जाता ॥ १२ ॥

१३13

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।  
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |  
tasya kartāramapi māṃ viddhyakartāramavyayam || 13 ||

चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितम् , ‘ब्राह्मणोऽस्य मुखमासीत्’ (ऋ. १० । ८ । ९१) इत्यादिश्रुतेः । गुणकर्मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्वरजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य ‘शमो दमस्तपः’ (भ. गी. १८ । ४२) इत्यादीनि कर्माणि, सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तमउपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रूषैव कर्म इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् इत्यर्थः । तच्च इदं चातुर्वर्ण्यं न अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वात् तत्फलेन युज्यसे, अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यते — यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतः विद्धि अकर्तारम् । अत एव अव्ययम् असंसारिणं च मां विद्धि ॥ १३ ॥

१४14

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।  
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥
na māṃ karmāṇi limpanti na me karmaphale spṛhā |  
iti māṃ yo'bhijānāti karmabhirna sa badhyate || 14 ||

न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेन, अहङ्काराभावात् । न च तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णा । येषां तु संसारिणाम् ‘अहं कर्ता’ इत्यभिमानः कर्मसु, स्पृहा तत्फलेषु च, तान् कर्माणि लिम्पन्ति इति युक्तम् , तदभावात् न मां कर्माणि लिम्पन्ति । इति एवं यः अन्योऽपि माम् आत्मत्वेन अभिजानाति ‘नाहं कर्ता न मे कर्मफले स्पृहा’ इति सः कर्मभिः न बध्यते, तस्यापि न देहाद्यारम्भकाणि कर्माणि भवन्ति इत्यर्थः ॥ १४ ॥

१५15

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।  
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |  
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam || 15 ||

एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः । कुरु तेन कर्मैव त्वम् , न तूष्णीमासनं नापि सन्न्यासः कर्तव्यः, तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वात् , यदि अनात्मज्ञः त्वं तदा आत्मशुद्ध्यर्थम् , तत्त्वविच्चेत् लोकसङ्ग्रहार्थं पूर्वैः जनकादिभिः पूर्वतरं कृतं न अधुनातनं कृतं निर्वर्तितम् ॥ १५ ॥

१६16

किं कर्म किमकर्मेति  
कवयोऽप्यत्र मोहिताः ।  
तत्ते कर्म प्रवक्ष्यामि  
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥
kiṃ karma kimakarmeti  
kavayo'pyatra mohitāḥ |  
tatte karma pravakṣyāmi  
yajjñātvā mokṣyase'śubhāt || 16 ||

किं कर्म किं च अकर्म इति कवयः मेधाविनः अपि अत्र अस्मिन् कर्मादिविषये मोहिताः मोहं गताः । तत् अतः ते तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि, यत् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे अशुभात् संसारात् ॥ १६ ॥

१७17

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।  
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |  
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ || 17 ||

कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्धव्यम् , बोद्धव्यं च अस्त्येव विकर्मणः प्रतिषिद्धस्य, तथा अकर्मणश्च तूष्णीम्भावस्य बोद्धव्यम् अस्ति इति त्रिष्वप्यध्याहारः कर्तव्यः । यस्मात् गहना विषमा दुर्ज्ञेया — कर्मणः इति उपलक्षणार्थं कर्मादीनाम् — कर्माकर्मविकर्मणां गतिः याथात्म्यं तत्त्वम् इत्यर्थः ॥ १७ ॥

१८18

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।  
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ |  
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || 18 ||

कर्मणि, क्रियते इति कर्म व्यापारमात्रम् , तस्मिन् कर्मणि अकर्म कर्माभावं यः पश्येत् , अकर्मणि च कर्माभावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योः — वस्तु अप्राप्यैव हि सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एव — कर्म यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्तः योगी च, कृत्स्नकर्मकृत् समस्तकर्मकृच्च सः, इति स्तूयते कर्माकर्मणोरितरेतरदर्शी ॥

ननु किमिदं विरुद्धमुच्यते ‘कर्मणि अकर्म यः पश्येत्’ इति ‘अकर्मणि च कर्म’ इति ; न हि कर्म अकर्म स्यात् , अकर्म वा कर्म । तत्र विरुद्धं कथं पश्येत् द्रष्टा ? — न, अकर्म एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टेः लोकस्य, तथा कर्मैव अकर्मवत् । तत्र यथाभूतदर्शनार्थमाह भगवान् — ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि । अतो न विरुद्धम् । बुद्धिमत्त्वाद्युपपत्तेश्च । ‘बोद्धव्यम्’ (भ. गी. ४ । १७) इति च यथाभूतदर्शनमुच्यते । न च विपरीतज्ञानात् अशुभात् मोक्षणं स्यात् ; ‘यत् ज्ञात्वा मोक्ष्यसेऽशुभात्’ (भ. गी. ४ । १६) इति च उक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनम् ‘कर्मण्यकर्म यः’ इत्यादि । न च अत्र कर्माधिकरणमकर्म अस्ति, कुण्डे बदराणीव । नापि अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादकर्मणः । अतः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम् । ननु कर्म कर्मैव सर्वेषां न क्वचित् व्यभिचरति — तत् न, नौस्थस्य नावि गच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रतिकूलगतिदर्शनात् , दूरेषु चक्षुषा असन्निकृष्टेषु गच्छत्सु गत्यभावदर्शनात् , एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि च अकर्मदर्शनं विपरीतदर्शनं येन तन्निराकरणार्थमुच्यते ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि ॥

तदेतत् उक्तप्रतिवचनमपि असकृत् अत्यन्तविपरीतदर्शनभाविततया मोमुह्यमानो लोकः श्रुतमपि असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गम् अवतार्यावतार्य चोदयति इति पुनः पुनः उत्तरमाह भगवान् , दुर्विज्ञेयत्वं च आलक्ष्य वस्तुनः । ‘अव्यक्तोऽयमचिन्त्योऽयम्’ (भ. गी. २ । २५) ‘न जायते म्रियते’ (भ. गी. २ । २०) इत्यादिना आत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तः वक्ष्यमाणश्च । तस्मिन् आत्मनि कर्माभावे अकर्मणि कर्मविपरीतदर्शनम् अत्यन्तनिरूढम् ; यतः, ‘किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः’ (भ. गी. ४ । १६) । देहाद्याश्रयं कर्म आत्मन्यध्यारोप्य ‘अहं कर्ता, मम एतत् कर्म, मया अस्य कर्मणः फलं भोक्तव्यम्’ इति च, तथा ‘अहं तूष्णीं भवामि, येन अहं निरायासः अकर्मा सुखी स्याम्’ इति कार्यकरणाश्रयं व्यापारोपरमं तत्कृतं च सुखित्वम् आत्मनि अध्यारोप्य ‘न करोमि किञ्चित् , तूष्णीं सुखमासे’ इति अभिमन्यते लोकः । तत्रेदं लोकस्य विपररीतदर्शनापनयाय आह भगवान् — ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि ॥

अत्र च कर्म कर्मैव सत् कार्यकरणाश्रयं कर्मरहिते अविक्रिये आत्मनि सर्वैः अध्यस्तम् , यतः पण्डितोऽपि ‘अहं करोमि’ इति मन्यते । अतः आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकूलस्थेष्विव वृक्षेषु गतिप्रातिलोम्येन अकर्म कर्माभावं यथाभूतं गत्यभावमिव वृक्षेषु यः पश्येत् , अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवत् आत्मनि अध्यारोपिते, ‘तूष्णीं अकुर्वन् सुखं आसे’ इत्यहङ्काराभिसन्धिहेतुत्वात् , तस्मिन् अकर्मणि च कर्म यः पश्येत् , यः एवं कर्माकर्मविभागज्ञः सः बुद्धिमान् पण्डितः मनुष्येषु, सः युक्तः योगी कृत्स्नकर्मकृच्च सः अशुभात् मोक्षितः कृतकृत्यो भवति इत्यर्थः ॥

अयं श्लोकः अन्यथा व्याख्यातः कैश्चित् । कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्फलाभावात् अकर्माणि तानि उच्यन्ते गौण्या वृत्त्या । तेषां च अकरणम् अकर्म ; तच्च प्रत्यवायफलत्वात् कर्म उच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मणि अकर्म यः पश्येत् फलाभावात् ; यथा धेनुरपि गौः अगौः इत्युच्यते क्षीराख्यं फलं न प्रयच्छति इति, तद्वत् । तथा नित्याकरणे तु अकर्मणि च कर्म यः पश्येत् नरकादिप्रत्यवायफलं प्रयच्छति इति ॥

नैतत् युक्तं व्याख्यानम् । एवं ज्ञानात् अशुभात् मोक्षानुपपत्तेः ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात्’ (भ. गी. ४ । १६) इति भगवता उक्तं वचनं बाध्येत । कथम् ? नित्यानामनुष्ठानात् अशुभात् स्यात् नाम मोक्षणम् , न तु तेषां फलाभावज्ञानात् । न हि नित्यानां फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितम् , नित्यकर्मज्ञानं वा । न च भगवतैवेहोक्तम् । एतेन अकर्मणि कर्मदर्शनं प्रत्युक्तम् । न हि अकर्मणि ‘कर्म’ इति दर्शनं कर्तव्यतया इह चोद्यते, नित्यस्य तु कर्तव्यतामात्रम् । न च ‘अकरणात् नित्यस्य प्रत्यवायो भवति’ इति विज्ञानात् किञ्चित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि ‘कर्म अकर्म’ इति मिथ्यादर्शनात् अशुभात् मोक्षणं बुद्धिमत्त्वं युक्तता कृत्स्नकर्मकृत्त्वादि च फलम् उपपद्यते, स्तुतिर्वा । मिथ्याज्ञानमेव हि साक्षात् अशुभरूपम् । कुतः अन्यस्मादशुभात् मोक्षणम् ? न हि तमः तमसो निवर्तकं भवति ॥

ननु कर्मणि यत् अकर्मदर्शनम् अकर्मणि वा कर्मदर्शनं न तत् मिथ्याज्ञानम् ; किं तर्हि ? गौणं फलभावाभावनिमित्तम् — न, कर्माकर्मविज्ञानादपि गौणात् फलस्य अश्रवणात् । नापि श्रुतहान्यश्रुतपरिकल्पनायां कश्चित् विशेष उपलभ्यते । स्वशब्देनापि शक्यं वक्तुम् ‘नित्यकर्मणां फलं नास्ति, अकरणाच्च तेषां नरकपातः स्यात्’ इति ; तत्र व्याजेन परव्यामोहरूपेण ‘कर्मण्यकर्म यः पस्येत्’ इत्यादिना किम् ? तत्र एवं व्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यात् । न च एतत् छद्मरूपेण वाक्येन रक्षणीयं वस्तु ; नापि शब्दान्तरेण पुनः पुनः उच्यमानं सुबोधं स्यात् इत्येवं वक्तुं युक्तम् । ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) इत्यत्र हि स्फुटतर उक्तः अर्थः, न पुनर्वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यमेव । न निष्प्रयोजनं बोद्धव्यमित्युच्यते ॥

न च मिथ्याज्ञानं बोद्धव्यं भवति, तत्प्रत्युपस्थापितं वा वस्त्वाभासम् । नापि नित्यानाम् अकरणात् अभावात् प्रत्यवायभावोत्पत्तिः, ‘नासतो विद्यते भावः’ (भ. गी. २ । १६) इति वचनात् ‘कथं असतः सज्जायेत’ (छा. उ. ६ । २ । २) इति च दर्शितम् असतः सज्जन्मप्रतिषेधात् । असतः सदुत्पत्तिं ब्रुवता असदेव सद्भवेत् , सच्चापि असत् भवेत् इत्युक्तं स्यात् । तच्च अयुक्तम् , सर्वप्रमाणविरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रम् , दुःखस्वरूपत्वात् , दुःखस्य च बुद्धिपूर्वकतया कार्यत्वानुपपत्तेः । तदकरणे च नरकपाताभ्युपगमात् अनर्थायैव उभयथापि करणे च अकरणे च शास्त्रं निष्फलं कल्पितं स्यात् । स्वाभ्युपगमविरोधश्च ‘नित्यं निष्फलं कर्म’ इति अभ्युपगम्य ‘मोक्षफलाय’ इति ब्रुवतः । तस्मात् यथाश्रुत एवार्थः ‘कर्मण्यकर्म यः’ इत्यादेः । तथा च व्याख्यातः अस्माभिः श्लोकः ॥ १८ ॥

१९19

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।  
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |  
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || 19 ||

यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि, समारभ्यन्ते इति समारम्भाः, कामसङ्कल्पवर्जिताः कामैः तत्कारणैश्च सङ्कल्पैः वर्जिताः मुधैव चेष्टामात्रा अनुष्ठीयन्ते ; प्रवृत्तेन चेत् लोकसङ्ग्रहार्थम् , निवृत्तेन चेत् जीवनमात्रार्थम् । तं ज्ञानाग्निदग्धकर्माणं कर्मादौ अकर्मादिदर्शनं ज्ञानं तदेव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्मविदः ॥ १९ ॥

२०20

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।  
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |  
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ || 20 ||

त्यक्त्वा कर्मसु अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्यतृप्तः निराकाङ्क्षो विषयेषु इत्यर्थः । निराश्रयः आश्रयरहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति, दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्मदर्शनसम्पन्नत्वात् । तेन एवम्भूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्यमेव इति प्राप्ते, ततः निर्गमासम्भवात् लोकसङ्ग्रहचिकीर्षया शिष्टविगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि निष्क्रियात्मदर्शनसम्पन्नत्वात् नैव किञ्चित् करोति सः ॥ २० ॥

२१21

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।  
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥
nirāśīryatacittātmā tyaktasarvaparigrahaḥ |  
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam || 21 ||

निराशीः निर्गताः आशिषः यस्मात् सः निराशीः, यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसङ्घातः तौ उभावपि यतौ संयतौ येन सः यतचित्तात्मा, त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्वपरिग्रहः, शारीरं शरीरस्थितिमात्रप्रयोजनम् , केवलं तत्रापि अभिमानवर्जितम् , कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बिषम् अनिष्टरूपं पापं धर्मं च । धर्मोऽपि मुमुक्षोः किल्बिषमेव बन्धापादकत्वात् । तस्मात् ताभ्यां मुक्तः भवति, संसारात् मुक्तो भवति इत्यर्थः ॥

‘शारीरं केवलं कर्म’ इत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्म अभिप्रेतम् , आहोस्वित् शरीरस्थितिमात्रप्रयोजनं शारीरं कर्म इति ? किं च अतः यदि शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरम् इति ? उच्यते — यदा शरीरनिर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् , तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्यपि ब्रुवतः अप्राप्तप्रतिषेधप्रसङ्गः । ‘शारीरं कर्म कुर्वन्’ इति विशेषणात् केवलशब्दप्रयोगाच्च वाङ्मनसनिर्वर्त्यं कर्म विधिप्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन् प्राप्नोति किल्बिषम् इत्युक्तं स्यात् । तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे किल्बिषप्राप्तिवचनं विरुद्धम् आपद्येत । प्रतिषिद्धसेवापक्षेऽपि भूतार्थानुवादमात्रम् अनर्थकं स्यात् । यदा तु शरीरस्थितिमात्रप्रयोजनं शारीरं कर्म अभिप्रेतं भवेत् , तदा दृष्टादृष्टप्रयोजनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यम् अन्यत् अकुर्वन् तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केवलशब्दप्रयोगात् ‘अहं करोमि’ इत्यभिमानवर्जितः शरीरादिचेष्टामात्रं लोकदृष्ट्या कुर्वन् नाप्नोति किल्बिषं । एवम्भूतस्य पापशब्दवाच्यकिल्बिषप्राप्त्यसम्भवात् किल्बिषं संसारं न आप्नोति ; ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत एव इति पूर्वोक्तसम्यग्दर्शनफलानुवाद एव एषः । एवम् ‘शारीरं केवलं कर्म’ इत्यस्य अर्थस्य परिग्रहे निरवद्यं भवति ॥ २१ ॥

२२22

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।  
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ |  
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate || 22 ||

यदृच्छालाभसन्तुष्टः अप्रार्थितोपनतो लाभो यदृच्छालाभः तेन सन्तुष्टः सञ्जातालम्प्रत्ययः । द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीतः उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्दिः समः तुल्यः यदृच्छालाभस्य सिद्धौ असिद्धौ च । यः एवम्भूतो यतिः अन्नादेः शरीरस्थितिहेतोः लाभालाभयोः समः हर्षविषादवर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन् शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वर्त्ये ‘नैव किञ्चित् करोम्यहम्’ (भ. गी. ५ । ८), ‘गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) इत्येवं सदा सम्परिचक्षाणः आत्मनः कर्तृत्वाभावं पश्यन्नैव किञ्चित् भिक्षाटनादिकं कर्म करोति, लोकव्यवहारसामान्यदर्शनेन तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति । स्वानुभवेन तु शास्त्रप्रमाणादिजनितेन अकर्तैव । स एवं पराध्यारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥ २२ ॥

२३23

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।  
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
gatasaṅgasya muktasya jñānāvasthitacetasaḥ |  
yajñāyācarataḥ karma samagraṃ pravilīyate || 23 ||

गतसङ्गस्य सर्वतोनिवृत्तासक्तेः, मुक्तस्य निवृत्तधर्माधर्मादिबन्धनस्य, ज्ञानावस्थितचेतसः ज्ञाने एव अवस्थितं चेतः यस्य सोऽयं ज्ञानावस्थितचेताः तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम् आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्तते इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति इत्यर्थः ॥ २३ ॥

२४24

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।  
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |  
brahmaiva tena gantavyaṃ brahmakarmasamādhinā || 24 ||

ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ‘ब्रह्म अर्पणम्’ इति असमस्ते पदे । यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थः । ब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्य । तथा ‘ब्रह्माग्नौ’ इति समस्तं पदम् । अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थः । यत् तेन हुतं हवनक्रिया तत् ब्रह्मैव । यत् तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ॥

एवं लोकसङ्ग्रहं चिकीर्षुणापि क्रियमाणं कर्म परमार्थतः अकर्म, ब्रह्मबुद्ध्युपमृदितत्वात् । एवं सति निवृत्तकर्मणोऽपि सर्वकर्मसन्न्यासिनः सम्यग्दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरामुपपद्यते ; यत् अर्पणादि अधियज्ञे प्रसिद्धं तत् अस्य अध्यात्मं ब्रह्मैव परमार्थदर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । तस्मात् ब्रह्मैव इदं सर्वमिति अभिजानतः विदुषः कर्माभावः । कारकबुद्ध्यभावाच्च । न हि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टम् । सर्वमेव अग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसम्प्रदानादिकारकबुद्धिमत् कर्त्रभिमानफलाभिसन्धिमच्च दृष्टम् ; न उपमृदितक्रियाकारकफलभेदबुद्धिमत् कर्तृत्वाभिमानफलाभिसन्धिरहितं वा । इदं तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धि कर्म । अतः अकर्मैव तत् । तथा च दर्शितम् ‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) ‘कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः’ (भ. गी. ४ । २०) ‘गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८) इत्यादिभिः । तथा च दर्शयन् तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दं करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिः । तथा मतिपूर्वकामतिपूर्वकादीनां कर्मणां कार्यविशेषस्य आरम्भकत्वं दृष्टम् । तथा इहापि ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टामात्रेण कर्मापि विदुषः अकर्म सम्पद्यते । अतः उक्तम् ‘समग्रं प्रविलीयते’ (भ. गी. ४ । २०) इति ॥

अत्र केचिदाहुः — यत् ब्रह्म तत् अर्पणादीनि ; ब्रह्मैव किल अर्पणादिना पञ्चविधेन कारकात्मना व्यवस्थितं सत् तदेव कर्म करोति । तत्र न अर्पणादिबुद्धिः निवर्त्यते, किं तु अर्पणादिषु ब्रह्मबुद्धिः आधीयते ; यथा प्रतिमादौ विष्ण्वादिबुद्धिः, यथा वा नामादौ ब्रह्मबुद्धिरिति ॥

सत्यम् , एवमपि स्यात् यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यात् । अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितम् अनेकान् यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य ‘श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४ । ३३) इति ज्ञानं स्तौति । अत्र च समर्थमिदं वचनम् ‘ब्रह्मार्पणम्’ इत्यादि ज्ञानस्य यज्ञत्वसम्पादने ; अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं स्यात् । ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवत् ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते न तेषां ब्रह्मविद्या उक्ता इह विवक्षिता स्यात् , अर्पणादिविषयत्वात् ज्ञानस्य । न च दृष्टिसम्पादनज्ञानेन मोक्षफलं प्राप्यते । ‘ब्रह्मैव तेन गन्तव्यम्’ इति चोच्यते । विरुद्धं च सम्यग्दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इति । प्रकृतविरोधश्च ; सम्यग्दर्शनम् च प्रकृतम् ‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) इत्यत्र, अन्ते च सम्यग्दर्शनम् , तस्यैव उपसंहारात् । ‘श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४ । ३३), ‘ज्ञानं लब्ध्वा परां शान्तिम्’ (भ. गी. ४ । ३९) इत्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वन् उपक्षीणः अध्यायः । तत्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे प्रतिमायामिव विष्णुदृष्टिः उच्यते इति अनुपपन्नम् | तस्मात् यथाव्याख्यातार्थ एव अयं श्लोकः ॥ २४ ॥

२५25

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।  
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
daivamevāpare yajñaṃ yoginaḥ paryupāsate |  
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati || 25 ||

दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’ ‘यत् साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इत्यादिवचनोक्तम् अशनायादिसर्वसंसारधर्मवर्जितम् ‘नेति नेति’ (बृ. उ. ४ । ४ । २२) इति निरस्ताशेषविशेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः होमाधिकरणत्वविवक्षया ब्रह्माग्निः । तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः परमेव ब्रह्म सन्तं बुद्ध्याद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधिधर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः सन्न्यासिनः इत्यर्थः ॥ २५ ॥

२६26

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।  
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |  
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26 ||

श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु । प्रतीन्द्रियं संयमो भिद्यते इति बहुवचनम् । संयमा एव अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः । शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं मन्यन्ते ॥ २६ ॥

२७27

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।  
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |  
ātmasaṃyamayogāgnau juhvati jñānadīpite || 27 ||

सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रियकर्माणि, तथा प्राणकर्माणि प्राणो वायुः आध्यात्मिकः तत्कर्माणि आकुञ्चनप्रसारणादीनि तानि च अपरे आत्मसंयमयोगाग्नौ आत्मनि संयमः आत्मसंयमः स एव योगाग्निः तस्मिन् आत्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनेव प्रदीपे विवेकविज्ञानेन उज्ज्वलभावम् आपादिते जुह्वति प्रविलापयन्ति इत्यर्थः ॥ २७ ॥

२८28

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।  
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥
dravyayajñāstapoyajñā yogayajñāstathāpare |  
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ || 28 ||

द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः । तपोयज्ञाः तपः यज्ञः येषां तपस्विनां ते तपोयज्ञाः । योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणो योगो यज्ञो येषां ते योगयज्ञाः । तथा अपरे स्वाध्यायज्ञानयज्ञाश्च स्वाध्यायः यथाविधि ऋगाद्यभ्यासः यज्ञः येषां ते स्वाध्याययज्ञाः । ज्ञानयज्ञाः ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञः येषां ते ज्ञानयज्ञाश्च यतयः यतनशीलाः संशितव्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशितव्रताः ॥ २८ ॥

२९29

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।  
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare |  
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||

अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम् , पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । प्राणे अपानं तथा अपरे जुह्वति, रेचकाख्यं च प्राणायामं कुर्वन्तीत्येतत् । प्राणापानगती मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः ; कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः ॥ २९ ॥

३०30

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।  
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati |  
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ || 30 ||

अपरे नियताहाराः नियतः परिमितः आहारः येषां ते नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणेषु एव जुह्वति यस्य यस्य वायोः जयः क्रियते इतरान् वायुभेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वेऽपि एते यज्ञविदः यज्ञक्षपितकल्मषाः यज्ञैः यथोक्तैः क्षपितः नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषाः ॥ ३० ॥

३१31

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।  
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam |  
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama || 31 ||

यज्ञशिष्टामृतभुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तत् अमृतं च यज्ञशिष्टामृतं तत् भुञ्जते इति यज्ञशिष्टामृतभुजः । यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत् ; कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते । न अयं लोकः सर्वप्राणिसाधारणोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि यज्ञः यस्य नास्ति सः अयज्ञः तस्य । कुतः अन्यो विशिष्टसाधनसाध्यः कुरुसत्तम ॥ ३१ ॥

३२32

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।  
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |  
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase || 32 ||

एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः वितताः विस्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः ब्रह्मणो मुखे वितता उच्यन्ते ; तद्यथा ‘वाचि हि प्राणं जुहुमः’ (ऐ. आ. ३ । २ । ६) इत्यादयः । कर्मजान् कायिकवाचिकमानसकर्मोद्भावान् विद्धि तान् सर्वान् अनात्मजान् , निर्व्यापारो हि आत्मा । अत एवं ज्ञात्वा विमोक्ष्यसे अशुभात् । न मद्व्यापारा इमे, निर्व्यापारोऽहम् उदासीन इत्येवं ज्ञात्वा अस्मात् सम्यग्दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः ॥ ३२ ॥

३३33

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।  
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
śreyāndravyamayādyajñājjñānayajñaḥ parantapa |  
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate || 33 ||

श्रेयान् द्रव्यमयात् द्रव्यसाधनसाध्यात् यज्ञात् ज्ञानयज्ञः हे परन्तप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञः न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने सर्वतःसम्प्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः ‘यथा कृताय विजितायाधरेयाः संयन्त्येवमेवं सर्वं तदभिसमेति यत् किञ्चित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’ (छा. उ. ४ । १ । ४) इति श्रुतेः ॥ ३३ ॥

३४34

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।  
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥
tadviddhi praṇipātena paripraśnena sevayā |  
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ || 34 ||

तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः दीर्घनमस्कारः तेन, ‘कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? ’ इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवमादिना । प्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनः । ज्ञानवन्तोऽपि केचित् यथावत् तत्त्वदर्शनशीलाः, अपरे न ; अतो विशिनष्टि तत्त्वदर्शिनः इति । ये सम्यग्दर्शिनः तैः उपदिष्टं ज्ञानं कार्यक्षमं भवति नेतरत् इति भगवतो मतम् ॥ ३४ ॥

३५35

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।  
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava |  
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi || 35 ||

यत् ज्ञात्वा यत् ज्ञानं तैः उपदिष्टं अधिगम्य प्राप्य पुनः भूयः मोहम् एवं यथा इदानीं मोहं गतोऽसि पुनः एवं न यास्यसि हे पाण्डव । किञ्च — येन ज्ञानेन भूतानि अशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षात् आत्मनि प्रत्यगात्मनि ‘मत्संस्थानि इमानि भूतानि’ इति अथो अपि मयि वासुदेवे ‘परमेश्वरे च इमानि’ इति ; क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसि इत्यर्थः ॥ ३५ ॥

३६36

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।  
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |  
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi || 36 ||

अपि चेत् असि पापेभ्यः पापकृद्भ्यः सर्वेभ्यः अतिशयेन पापकृत् पापकृत्तमः सर्वं ज्ञानप्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनं वृजिनार्णवं पापसमुद्रं सन्तरिष्यसि । धर्मोऽपि इह मुमुक्षोः पापम् उच्यते ॥ ३६ ॥

३७37

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।  
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |  
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || 37 ||

यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः अग्निः भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानमेव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोतीत्यर्थः । न हि साक्षादेव ज्ञानाग्निः कर्माणि इन्धनवत् भस्मीकर्तुं शक्नोति । तस्मात् सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वे कारणम् इत्यभिप्रायः । सामर्थ्यात् येन कर्मणा शरीरम् आरब्धं तत् प्रवृत्तफलत्वात् उपभोगेनैव क्षीयते । अतो यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञानसहभावीनि च अतीतानेकजन्मकृतानि च तान्येव सर्वाणि भस्मसात् कुरुते ॥ ३७ ॥

३८38

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।  
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
na hi jñānena sadṛśaṃ pavitramiha vidyate |  
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati || 38 ||

न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह विद्यते । तत् ज्ञानं स्वयमेव योगसंसिद्धः योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः ॥ ३८ ॥

३९39

श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।  
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ |  
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati || 39 ||

श्रद्धावान् श्रद्धालुः लभते ज्ञानम् । श्रद्धालुत्वेऽपि भवति कश्चित् मन्दप्रस्थानः, अत आह — तत्परः, गुरूपसदनादौ अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान् । तत्परः अपि अजितेन्द्रियः स्यात् इत्यतः आह — संयतेन्द्रियः, संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः । य एवम्भूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति, मायावित्वादिसम्भवात् ; न तु तत् श्रद्धावत्त्वादौ इत्येकान्ततः ज्ञानलब्ध्युपायः । किं पुनः ज्ञानलाभात् स्यात् इत्युच्यते — ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रमेव अधिगच्छति । सम्यग्दर्शनात् क्षिप्रमेव मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः ॥ ३९ ॥

४०40

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।  
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |  
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ || 40 ||

अज्ञश्च अनात्मज्ञश्च अश्रद्दधानश्च गुरुवाक्यशास्त्रेषु अविश्वासवांश्च संशयात्मा च संशयचित्तश्च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणोऽपि लोकोऽस्ति । तथा न परः लोकः । न सुखम् , तत्रापि संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य । तस्मात् संशयो न कर्तव्यः ॥ ४० ॥

४१41

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।  
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
yogasannyastakarmāṇaṃ jñānasañchinnasaṃśayam |  
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || 41 ||

योगसन्न्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन सन्न्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसन्न्यस्तकर्माणम् । कथं योगसन्न्यस्तकर्मेत्याह — ज्ञानसञ्छिन्नसंशयं ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन सञ्छिन्नः संशयो यस्य सः ज्ञानसञ्छिन्नसंशयः । य एवं योगसन्न्यस्तकर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे धनञ्जय ॥ ४१ ॥

४२42

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।  
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥
tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |  
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata || 42 ||

तस्मात् पापिष्ठम् अज्ञानसम्भूतम् अज्ञानात् अविवेकात् जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेव असिः खङ्गः तेन ज्ञानासिना आत्मनः स्वस्य, आत्मविषयत्वात् संशयस्य । न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत । अतः आत्मविषयोऽपि स्वस्यैव भवति । छित्त्वा एनं संशयं स्वविनाशहेतुभूतम् , योगं सम्यग्दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्वित्यर्थः । उत्तिष्ठ च इदानीं युद्धाय भारत इति ॥ ४२ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye caturtho'dhyāyaḥ ||