अष्टादशोऽध्यायः

सर्वस्यैव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थो वक्तव्यः इत्येवमर्थः अयम् अध्यायः आरभ्यते । सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते । अर्जुनस्तु सन्न्यासत्यागशब्दार्थयोरेव विशेषबुभुत्सुः उवाच —

1

अर्जुन उवाच —

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।  
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥
arjuna uvāca —

sannyāsasya mahābāho tattvamicchāmi veditum |  
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana || 1 ||

सन्न्यासस्य सन्न्यासशब्दार्थस्य इत्येतत् , हे महाबाहो, तत्त्वं तस्य भावः तत्त्वम् , याथात्म्यमित्येतत् , इच्छामि वेदितुं ज्ञातुम् , त्यागस्य च त्यागशब्दार्थस्येत्येतत् , हृषीकेश, पृथक् इतरेतरविभागतः केशिनिषूदन केशिनामा हयच्छद्मा कश्चित् असुरः तं निषूदितवान् भगवान् वासुदेवः, तेन तन्नाम्ना सम्बोध्यते अर्जुनेन ॥ १ ॥

2

श्रीभगवानुवाच —

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।  
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
śrībhagavānuvāca —

kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ |  
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ || 2 ||

काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं सन्न्यासशब्दार्थम् , अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम् , कवयः पण्डिताः केचित् विदुः विजानन्ति । नित्यनैमित्तिकानाम् अनुष्ठीयमानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताः । यदि काम्यकर्मपरित्यागः फलपरित्यागो वा अर्थः वक्तव्यः, सर्वथा परित्यागमात्रं सन्न्यासत्यागशब्दयोः एकः अर्थः स्यात् , न घटपटशब्दाविव जात्यन्तरभूतार्थौ ॥

ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति आहुः । कथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात् । वक्ष्यति हि भगवान् ‘अनिष्टमिष्टं मिश्रं च’ (भ. गी. १८ । १२) इति ‘न तु सन्न्यासिनाम्’ (भ. गी. १८ । १२) इति च । सन्न्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असन्न्यासिनां नित्यकर्मफलप्राप्तिम् ‘भवत्यत्यागिनां प्रेत्य’ (भ. गी. १८ । १२) इति दर्शयति ॥ २ ॥

3

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।  
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |  
yajñadānatapaḥkarma na tyājyamiti cāpare || 3 ||

त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् । किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव । अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इति । तत्रैव यज्ञदानतपःकर्म न त्याज्यम् इति च अपरे ॥

कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः सन्न्यासिनः अपेक्ष्य । ‘ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ॥

ननु ‘कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति । न, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः । न कायक्लेशनिमित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात् । अतः ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति । नापि ते कर्माणि आत्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुः । गुणानां कर्म ‘नैव किञ्चित्करोमि’ (भ. गी. ५ । ८) इति हि ते सन्न्यस्यन्ति । ‘सर्वकर्माणि मनसा सन्न्यस्य’ (भ. गी. ५ । १३) इत्यादिभिः तत्त्वविदः सन्न्यासप्रकारः उक्तः । तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषां च मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च, ते एव तामसाः त्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् ; ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) ‘मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) इति गुणातीतलक्षणे च परमार्थसन्न्यासिनः विशेषितत्वात् । वक्ष्यति च ‘निष्ठा ज्ञानस्य या परा’ (भ. गी. १८ । ५८) इति । तस्मात् ज्ञाननिष्ठाः सन्न्यासिनः न इह विवक्षिताः । कर्मफलत्यागः एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया सन्न्यासः उच्यते, न मुख्यः सर्वकर्मसन्न्यासः ॥

सर्वकर्मसन्न्यासासम्भवे च ‘न हि देहभृता’ (भ. गी. १८ । ११) इति हेतुवचनात् मुख्य एव इति चेत् , न ; हेतुवचनस्य स्तुत्यर्थत्वात् । यथा ‘त्यागाच्छान्तिरनन्तरम्’ (भ. गी. १२ । १२) इति कर्मफलत्यागस्तुतिरेव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथा इदमपि ‘न हि देहभृता शक्यम्’ (भ. गी. १८ । ११) इति कर्मफलत्यागस्तुत्यर्थम् ; न ‘सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्न कारयन्नास्ते’ (भ. गी. ५ । १३) इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यः । तस्मात् कर्मणि अधिकृतान् प्रत्येव एषः सन्न्यासत्यागविकल्पः । ये तु परमार्थदर्शिनः साङ्ख्याः, तेषां ज्ञाननिष्ठायामेव सर्वकर्मसन्न्यासलक्षणायाम् अधिकारः, न अन्यत्र, इति न ते विकल्पार्हाः । तच्च उपपादितम् अस्माभिः ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यस्मिन्प्रदेशे, तृतीयादौ च ॥ ३ ॥

4

निश्चयं शृणु मे तत्र  
त्यागे भरतसत्तम ।  
त्यागो हि पुरुषव्याघ्र  
त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
niścayaṃ śṛṇu me tatra  
tyāge bharatasattama |  
tyāgo hi puruṣavyāghra  
trividhaḥ samprakīrtitaḥ || 4 ||

निश्चयं शृणु अवधारय मे मम वचनात् ; तत्र त्यागे त्यागसन्न्यासविकल्पे यथादर्शिते भरतसत्तम भरतानां साधुतम । त्यागो हि, त्यागसन्न्यासशब्दवाच्यो हि यः अर्थः सः एक एवेति अभिप्रेत्य आह — त्यागो हि इति । पुरुषव्याघ्र, त्रिविधः त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसन्न्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति, न परमार्थदर्शिनः, इत्ययमर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वं न अन्यः वक्तुं समर्थः । तस्मात् निश्चयं परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥ ४ ॥

5

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।  
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat |  
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām || 5 ||

यज्ञः दानं तपः इत्येतत् त्रिविधं कर्म न त्याज्यं न त्यक्तव्यम् , कार्यं करणीयम् एव तत् । कस्मात् ? यज्ञः दानं तपश्चैव पावनानि विशुद्धिकराणि मनीषिणां फलानभिसन्धीनाम् इत्येतत् ॥ ५ ॥

6

एतान्यपि तु कर्माणि  
सङ्गं त्यक्त्वा फलानि च ।  
कर्तव्यानीति मे पार्थ  
निश्चितं मतमुत्तमम् ॥ ६ ॥
etānyapi tu karmāṇi  
saṅgaṃ tyaktvā phalāni ca |  
kartavyānīti me pārtha  
niścitaṃ matamuttamam || 6 ||

एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि सङ्गम् आसक्तिं तेषु त्यक्त्वा फलानि च तेषां परित्यज्य कर्तव्यानि इति अनुष्ठेयानि इति मे मम निश्चितं मतम् उत्तमम् ॥

‘निश्चयं शृणु मे तत्र’ (भ. गी. १८ । ४) इति प्रतिज्ञाय, पावनत्वं च हेतुम् उक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानि’ इत्येतत् ‘निश्चितं मतमुत्तमम्’ इति प्रतिज्ञातार्थोपसंहार एव, न अपूर्वार्थं वचनम् , ‘एतान्यपि’ इति प्रकृतसन्निकृष्टार्थत्वोपपत्तेः । सासङ्गस्य फलार्थिनः बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः । न तु अन्यानि कर्माणि अपेक्ष्य ‘एतान्यपि’ इति उच्यते ॥

अन्ये तु वर्णयन्ति — नित्यानां कर्मणां फलाभावात् ‘सङ्गं त्यक्त्वा फलानि च’ इति न उपपद्यते । अतः ‘एतान्यपि’ इति यानि काम्यानि कर्मणि नित्येभ्यः अन्यानि, एतानि अपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानि इति । तत् असत् , नित्यानामपि कर्मणाम् इह फलवत्त्वस्य उपपादितत्वात् ‘यज्ञो दानं तपश्चैव पावनानि’ (भ. गी. १८ । ५) इत्यादिना वचनेन । नित्यान्यपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु प्रसङ्गः ? ‘दूरेण ह्यवरं कर्म’ (भ. गी. २ । ४९) इति च निन्दितत्वात् , ‘यज्ञार्थात् कर्मणोऽन्यत्र’ (भ. गी. ३ । ९) इति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात् , ‘त्रैगुण्यविषया वेदाः’ (भ. गी. २ । ४५) ‘त्रैविद्या मां सोमपाः’ (भ. गी. ९ । २०) ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ (भ. गी. ९ । २१) इति च, दूरव्यवहितत्वाच्च, न काम्येषु ‘एतान्यपि’ इति व्यपदेशः ॥ ६ ॥

7

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।  
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥
niyatasya tu sannyāsaḥ karmaṇo nopapadyate |  
mohāttasya parityāgastāmasaḥ parikīrtitaḥ || 7 ||

नियतस्य तु नित्यस्य सन्न्यासः परित्यागः कर्मणः न उपपद्यते, अज्ञस्य पावनत्वस्य इष्टत्वात् । मोहात् अज्ञानात् तस्य नियतस्य परित्यागः — नियतं च अवश्यं कर्तव्यम् , त्यज्यते च, इति विप्रतिषिद्धम् ; अतः मोहनिमित्तः परित्यागः तामसः परिकीर्तितः मोहश्च तमः इति ॥ ७ ॥

8

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।  
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥
duḥkhamityeva yatkarma kāyakleśabhayāttyajet |  
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || 8 ||

दुःखम् इति एव यत् कर्म कायक्लेशभयात् शरीरदुःखभयात् त्यजेत् , सः कृत्वा राजसं रजोनिर्वर्त्यं त्यागं नैव त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न लभेत् नैव लभेत ॥ ८ ॥

9

कार्यमित्येव यत्कर्म  
नियतं क्रियतेऽर्जुन ।  
सङ्गं त्यक्त्वा फलं चैव  
स त्यागः सात्त्विको मतः ॥ ९ ॥
kāryamityeva yatkarma  
niyataṃ kriyate'rjuna |  
saṅgaṃ tyaktvā phalaṃ caiva  
sa tyāgaḥ sāttviko mataḥ || 9 ||

कार्यं कर्तव्यम् इत्येव यत् कर्म नियतं नित्यं क्रियते निर्वर्त्यते हे अर्जुन, सङ्गं त्यक्त्वा फलं च एव । एतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा, यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति ‘फलं त्यक्त्वा’ इत्यनेन । अतः साधु उक्तम् ‘सङ्गं त्यक्त्वा फलं च’ इति । सः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्वनिर्वृत्तः मतः अभिप्रेतः ॥

ननु कर्मपरित्यागः त्रिविधः सन्न्यासः इति च प्रकृतः । तत्र तामसो राजसश्च उक्तः त्यागः । कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत् । नैष दोषः त्यागसामान्येन स्तुत्यर्थत्वात् । अस्ति हि कर्मसन्न्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम् । तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते ‘स त्यागः सात्त्विको मतः’ इति ॥ ९ ॥

१०10

न द्वेष्ट्यकुशलं कर्म  
कुशले नानुषज्जते ।  
त्यागी सत्त्वसमाविष्टो  
मेधावी च्छिन्नसंशयः ॥ १० ॥
na dveṣṭyakuśalaṃ karma  
kuśale nānuṣajjate |  
tyāgī sattvasamāviṣṭo  
medhāvī cchinnasaṃśayaḥ || 10 ||

न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम् । कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन ‘मोक्षकारणम् इदम्’ इत्येवं न अनुषज्जते अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते — सत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य ‘आत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , न अन्यत् किञ्चित्’ इत्येवं निश्चयेन च्छिन्नसंशयः ॥

यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १० ॥

११11

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।  
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ |  
yastu karmaphalatyāgī sa tyāgītyabhidhīyate || 11 ||

न हि यस्मात् देहभृता, देहं बिभर्तीति देहभृत् , देहात्माभिमानवान् देहभृत् उच्यते, न विवेकी ; स हि ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यादिना कर्तृत्वाधिकारात् निवर्तितः । अतः तेन देहभृता अज्ञेन न शक्यं त्यक्तुं सन्न्यसितुं कर्माणि अशेषतः निःशेषेण । तस्मात् यस्तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसन्न्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्यभिप्रायेण । तस्मात् परमार्थदर्शिनैव अदेहभृता देहात्मभावरहितेन अशेषकर्मसन्न्यासः शक्यते कर्तुम् ॥ ११ ॥

१२12

अनिष्टमिष्टं मिश्रं च  
त्रिविधं कर्मणः फलम् ।  
भवत्यत्यागिनां प्रेत्य  
न तु सन्न्यासिनां क्वचित् ॥ १२ ॥
aniṣṭamiṣṭaṃ miśraṃ ca  
trividhaṃ karmaṇaḥ phalam |  
bhavatyatyāgināṃ pretya  
na tu sannyāsināṃ kvacit || 12 ||

अनिष्टं नरकतिर्यगादिलक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च, तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इह — फल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम् — तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसन्न्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम् । न तु सन्न्यासिनां परमार्थसन्न्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् । न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥

१३13

पञ्चैतानि महाबाहो  
कारणानि निबोध मे ।  
साङ्ख्ये कृतान्ते प्रोक्तानि  
सिद्धये सर्वकर्मणाम् ॥ १३ ॥
pañcaitāni mahābāho  
kāraṇāni nibodha me |  
sāṅkhye kṛtānte proktāni  
siddhaye sarvakarmaṇām || 13 ||

पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्वर्तकानि । निबोध मे मम इति उत्तरत्र चेतःसमाधानार्थम् , वस्तुवैषम्यप्रदर्शनार्थं च । तानि च कारणानि ज्ञातव्यतया स्तौति — साङ्ख्ये ज्ञातव्याः पदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत् साङ्ख्यं वेदान्तः । कृतान्ते इति तस्यैव विशेषणम् । कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः, कर्मान्तः इत्येतत् । ‘यावानर्थ उदपाने’ (भ. गी. २ । ४६) ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति आत्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयति । अतः तस्मिन् आत्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणाम् ॥ १३ ॥

१४14

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।  
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |  
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam || 14 ||

अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्तेराश्रयः अधिष्ठानं शरीरम् , तथा कर्ता उपाधिलक्षणः भोक्ता, करणं च श्रोत्रादि शब्दाद्युपलब्धये पृथग्विधं नानाप्रकारं तत् द्वादशसङ्ख्यं विविधाश्च पृथक्चेष्टाः वायवीयाः प्राणापानाद्याः दैवं चैव दैवमेव च अत्र एतेषु चतुर्षु पञ्चमं पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥ १४ ॥

१५15

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।  
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥
śarīravāṅmanobhiryatkarma prārabhate naraḥ |  
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ || 15 ||

शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम् , विपरीतं वा अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेव ग्रहणेन गृहीतम् , पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतवः कारणानि ॥

ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथम् उच्यते ‘शरीरवाङ्मनोभिः यत् कर्म प्रारभते’ इति ? नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति । फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति ॥ १५ ॥

१६16

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।  
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |  
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || 16 ||

तत्र इति प्रकृतेन सम्बध्यते । एवं सति एवं यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणि । तत्रैवं सति इति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते । तत्र एतेषु आत्मानन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणः ‘अहमेव कर्ता’ इति कर्तारम् आत्मानं केवलं शुद्धं तु यः पश्यति अविद्वान् ; कस्मात् ? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् असंस्कृतबुद्धित्वात् ; योऽपि देहादिव्यतिरिक्तात्मवादी आत्मानमेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः अकृतबुद्धित्वात् न सः पश्यति आत्मनः तत्त्वं कर्मणो वा इत्यर्थः । अतः दुर्मतिः, कुत्सिता विपरीता दुष्टा अजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः । सः पश्यन्नपि न पश्यति, यथा तैमिरिकः अनेकं चन्द्रम् , यथा वा अभ्रेषु धावत्सु चन्द्रं धावन्तम् , यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥ १६ ॥

१७17

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।  
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥ १७ ॥
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |  
hatvāpi sa imāṃllokānna hanti na nibadhyate || 17 ||

यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः न भवति अहङ्कृतः ‘अहं कर्ता’ इत्येवंलक्षणः भावः भावना प्रत्ययः — एते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पिताः सर्वकर्मणां कर्तारः, न अहम् , अहं तु तद्व्यापाराणां साक्षिभूतः ‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) केवलः अविक्रियः इत्येवं पश्यतीति एतत् — बुद्धिः अन्तःकरणं यस्य आत्मनः उपाधिभूता न लिप्यते न अनुशयिनी भवति — ‘इदमहमकार्षम् , तेन अहं नरकं गमिष्यामि’ इत्येवं यस्य बुद्धिः न लिप्यते — सः सुमतिः, सः पश्यति । हत्वा अपि सः इमान् लोकान् , सर्वान् इमान् प्राणिनः इत्यर्थः, न हन्ति हननक्रियां न करोति, न निबध्यते नापि तत्कार्येण अधर्मफलेन सम्बध्यते ॥

ननु हत्वापि न हन्ति इति विप्रतिषिद्धम् उच्यते यद्यपि स्तुतिः । नैष दोषः, लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेः । देहाद्यात्मबुद्ध्या ‘हन्ता अहम्’ इति लौकिकीं दृष्टिम् आश्रित्य ‘हत्वापि’ इति आह । यथादर्शितां पारमार्थिकीं दृष्टिम् आश्रित्य ‘न हन्ति न निबध्यते’ इति । एतत् उभयम् उपपद्यते एव ॥

ननु अधिष्ठानादिभिः सम्भूय करोत्येव आत्मा, ‘कर्तारमात्मानं केवलं तु’ (भ. गी. १८ । १६) इति केवलशब्दप्रयोगात् । नैष दोषः, आत्मनः अविक्रियस्वभावत्वे अधिष्ठानादिभिः, संहतत्वानुपपत्तेः । विक्रियावतो हि अन्यैः संहननं सम्भवति, संहत्य वा कर्तृत्वं स्यात् । न तु अविक्रियस्य आत्मनः केनचित् संहननम् अस्ति इति न सम्भूय कर्तृत्वम् उपपद्यते । अतः केवलत्वम् आत्मनः स्वाभाविकमिति केवलशब्दः अनुवादमात्रम् । अविक्रियत्वं च आत्मनः श्रुतिस्मृतिन्यायप्रसिद्धम् । ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) ‘गुणैरेव कर्माणि क्रियन्ते’ (भ. गी. ३ । २७) ‘शरीरस्थोऽपि न करोति’ (भ. गी. १३ । ३१) इत्यादि असकृत् उपपादितं गीतास्वेव तावत् । श्रुतिषु च ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्येवमाद्यासु । न्यायतश्च — निरवयवम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वम् इति राजमार्गः । विक्रियावत्त्वाभ्युपगमेऽपि आत्मनः स्वकीयैव विक्रिया स्वस्य भवितुम् अर्हति, न अधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः । न हि परस्य कर्म परेण अकृतम् आगन्तुम् अर्हति । यत्तु अविद्यया गमितम् , न तत् तस्य । यथा रजतत्वं न शुक्तिकायाः ; यथा वा तलमलिनत्वं बालैः गमितम् अविद्यया, न आकाशस्य, तथा अधिष्ठानादिविक्रियापि तेषामेव, न आत्मनः । तस्मात् युक्तम् उक्तम् ‘अहङ्कृतत्वबुद्धिलेपाभावात् विद्वान् न हन्ति न निबध्यते’ इति । ‘नायं हन्ति न हन्यते’ (भ. गी. २ । १९) इति प्रतिज्ञाय ‘न जायते’ (भ. गी. २ । २०) इत्यादिहेतुवचनेन अविक्रियत्वम् आत्मनः उक्त्वा, ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ सङ्क्षेपतः उक्त्वा, मध्ये प्रसारितां तत्र तत्र प्रसङ्गं कृत्वा इह उपसंहरति शास्त्रार्थपिण्डीकरणाय ‘विद्वान् न हन्ति न निबध्यते’ इति । एवं च सति देहभृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसन्न्यासोपपत्तेः सन्न्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न भवति इति उपपन्नम् ; तद्विपर्ययाच्च इतरेषां भवति इत्येतच्च अपरिहार्यम् इति एषः गीताशास्त्रार्थः उपसंहृतः । स एषः सर्ववेदार्थसारः निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसारेण ॥ १७ ॥

१८18

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।  
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |  
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ || 18 ||

ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते । तथा ज्ञेयं ज्ञातव्यम् , तदपि सामान्येनैव सर्वम् उच्यते । तथा परिज्ञाता उपाधिलक्षणः अविद्याकल्पितः भोक्ता । इति एतत् त्रयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदना । ज्ञानादीनां हि त्रयाणां सन्निपाते हानोपादानादिप्रयोजनः सर्वकर्मारम्भः स्यात् । ततः पञ्चभिः अधिष्ठानादिभिः आरब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतं त्रिषु करणादिषु सङ्गृह्यते इत्येतत् उच्यते — करणं क्रियते अनेन इति बाह्यं श्रोत्रादि, अन्तःस्थं बुद्ध्यादि, कर्म ईप्सिततमं कर्तुः क्रियया व्याप्यमानम् , कर्ता करणानां व्यापारयिता उपाधिलक्षणः, इति त्रिविधः त्रिप्रकारः कर्मसङ्ग्रहः, सङ्गृह्यते अस्मिन्निति सङ्ग्रहः, कर्मणः सङ्ग्रहः कर्मसङ्ग्रहः, कर्म एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

१९19

ज्ञानं कर्म च कर्ता च  
त्रिधैव गुणभेदतः ।  
प्रोच्यते गुणसङ्ख्याने  
यथावच्छृणु तान्यपि ॥ १९ ॥
jñānaṃ karma ca kartā ca  
tridhaiva guṇabhedataḥ |  
procyate guṇasaṅkhyāne  
yathāvacchṛṇu tānyapi || 19 ||

ज्ञानं कर्म च, कर्म क्रिया, न कारकं पारिभाषिकम् ईप्सिततमं कर्म, कर्ता च निर्वर्तकः क्रियाणां त्रिधा एव, अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः सत्त्वादिभेदेन इत्यर्थः । प्रोच्यते कथ्यते गुणसङ्ख्याने कापिले शास्त्रे तदपि गुणसङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेव । परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति न विरोधः । यथावत् यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिं कुरु इत्यर्थः ॥ १९ ॥

२०20

सर्वभूतेषु येनैकं  
भावमव्ययमीक्षते ।  
अविभक्तं विभक्तेषु  
तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥
sarvabhūteṣu yenaikaṃ  
bhāvamavyayamīkṣate |  
avibhaktaṃ vibhakteṣu  
tajjñānaṃ viddhi sāttvikam || 20 ||

सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन एकं भावं वस्तु — भावशब्दः वस्तुवाची, एकम् आत्मवस्तु इत्यर्थः ; अव्ययं न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम् इत्यर्थः ; ईक्षते पश्यति येन ज्ञानेन, तं च भावम् अविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तं तत् आत्मवस्तु, व्योमवत् निरन्तरमित्यर्थः ; तत् ज्ञानं साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकं विद्धि इति ॥ २० ॥

२१21

पृथक्त्वेन तु यज्ज्ञानं  
नानाभावान्पृथग्विधान् ।  
वेत्ति सर्वेषु भूतेषु  
तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥
pṛthaktvena tu yajjñānaṃ  
nānābhāvānpṛthagvidhān |  
vetti sarveṣu bhūteṣu  
tajjñānaṃ viddhi rājasam || 21 ||

पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु, ज्ञानस्य कर्तृत्वासम्भवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानं विद्धि राजसं रजोगुणनिर्वृत्तम् ॥ २१ ॥

२२22

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।  
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥
yattu kṛtsnavadekasminkārye saktamahaitukam |  
atattvārthavadalpaṃ ca tattāmasamudāhṛtam || 22 ||

यत् ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् ‘एतावानेव आत्मा ईश्वरो वा, न अतः परम् अस्ति’ इति, यथा नग्नक्षपणकादीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषाणदार्वादिमात्रम् , इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकं हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवत् अयथाभूतार्थवत् , यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत् , न तत्त्वार्थवत् अतत्त्वार्थवत् ; अहैतुकत्वादेव अल्पं च, अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् तामसम् उदाहृतम् । तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥ २२ ॥

२३23

नियतं सङ्गरहितमरागद्वेषतःकृतम् ।  
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥
niyataṃ saṅgarahitamarāgadveṣataḥkṛtam |  
aphalaprepsunā karma yattatsāttvikamucyate || 23 ||

नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतःकृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतःकृतम् , तद्विपरीतम् अरागद्वेषतःकृतम् , अफलप्रेप्सुना फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा कृतं कर्म यत् , तत् सात्त्विकम् उच्यते ॥ २३ ॥

२४24

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।  
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |  
kriyate bahulāyāsaṃ tadrājasamudāhṛtam || 24 ||

यत्तु कामेप्सुना कर्मफलप्रेप्सुना इत्यर्थः, कर्म साहङ्कारेण इति न तत्त्वज्ञानापेक्षया । किं तर्हि ? लौकिकश्रोत्रियनिरहङ्कारापेक्षया । यो हि परमार्थनिरहङ्कारः आत्मवित् , न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति । सात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोः । लोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यते ‘निरहङ्कारः अयं ब्राह्मणः’ इति । तस्मात् तदपेक्षयैव ‘साहङ्कारेण वा’ इति उक्तम् । पुनःशब्दः पादपूरणार्थः । क्रियते बहुलायासं कर्त्रा महता आयासेन निर्वर्त्यते, तत् कर्म राजसम् उदाहृतम् ॥ २४ ॥

२५25

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।  
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam |  
mohādārabhyate karma yattattāmasamucyate || 25 ||

अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं च अनुबन्धम् , क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम् , हिंसां प्राणिबाधां च ; अनपेक्ष्य च पौरुषं पुरुषकारम् ‘शक्नोमि इदं कर्म समापयितुम्’ इत्येवम् आत्मसामर्थ्यम् , इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत् , तत् तामसं तमोनिर्वृत्तम् उच्यते ॥ २५ ॥

२६26

मुक्तसङ्गोऽनहंवादी  
धृत्युत्साहसमन्वितः ।  
सिद्ध्यसिद्ध्योर्निर्विकारः  
कर्ता सात्त्विक उच्यते ॥ २६ ॥
muktasaṅgo'nahaṃvādī  
dhṛtyutsāhasamanvitaḥ |  
siddhyasiddhyornirvikāraḥ  
kartā sāttvika ucyate || 26 ||

मुक्तसङ्गः मुक्तः परित्यक्तः सङ्गः येन सः मुक्तसङ्गः, अनहंवादी न अहंवदनशीलः, धृत्युत्साहसमन्वितः धृतिः धारणम् उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तः धृत्युत्साहसमन्वितः, सिद्ध्यसिद्ध्योः क्रियमाणस्य कर्मणः फलसिद्धौ असिद्धौ च सिद्ध्यसिद्ध्योः निर्विकारः, केवलं शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः उच्यते । एवम्भूतः कर्ता यः सः सात्त्विकः उच्यते ॥ २६ ॥

२७27

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।  
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ |  
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ || 27 ||

रागी रागः अस्य अस्तीति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी इत्यर्थः, लुब्धः परद्रव्येषु सञ्जाततृष्णः, तीर्थादौ स्वद्रव्यापरित्यागी वा, हिंसात्मकः परपीडाकरस्वभावः, अशुचिः बाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वितः इष्टप्राप्तौ हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः ताभ्यां हर्षशोकाभ्याम् अन्वितः संयुक्तः, तस्यैव च कर्मणः सम्पत्तिविपत्तिभ्यां हर्षशोकौ स्याताम् , ताभ्यां संयुक्तो यः कर्ता सः राजसः परिकीर्तितः ॥ २७ ॥

२८28

अयुक्तः प्राकृतः स्तब्धः  
शठो नैकृतिकोऽलसः ।  
विषादी दीर्घसूत्री च  
कर्ता तामस उच्यते ॥ २८ ॥
ayuktaḥ prākṛtaḥ stabdhaḥ  
śaṭho naikṛtiko'lasaḥ |  
viṣādī dīrghasūtrī ca  
kartā tāmasa ucyate || 28 ||

अयुक्तः न युक्तः असमाहितः, प्राकृतः अत्यन्तासंस्कृतबुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित् , शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदा अवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यत् अद्य श्वो वा कर्तव्यं तत् मासेनापि न करोति, यश्च एवम्भूतः, सः कर्ता तामसः उच्यते ॥ २८ ॥

२९29

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।  
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu |  
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya || 29 ||

बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं शृणु इति सूत्रोपन्यासः । प्रोच्यमानं कथ्यमानम् अशेषेण निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनञ्जय, दिग्विजये मानुषं दैवं च प्रभूतं धनं जितवान् , तेन असौ धनञ्जयः अर्जुनः ॥ २९ ॥

३०30

प्रवृत्तिं च निवृत्तिं च  
कार्याकार्ये भयाभये ।  
बन्धं मोक्षं च या वेत्ति  
बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
pravṛttiṃ ca nivṛttiṃ ca  
kāryākārye bhayābhaye |  
bandhaṃ mokṣaṃ ca yā vetti  
buddhiḥ sā pārtha sāttvikī || 30 ||

प्रवृत्तिं च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रविहितविषयः, निवृत्तिं च निर्वृत्तिः मोक्षहेतुः सन्न्यासमार्गः — बन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्मसन्न्यासमार्गौ इति अवगम्यते — कार्याकार्ये विहितप्रतिषिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरणे इत्येतत् ; कस्य ? देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणाम् । भयाभये बिभेति अस्मादिति भयं चोरव्याघ्रादि, न भयं अभयम् , भयं च अभयं च भयाभये, दृष्टादृष्टविषययोः भयाभययोः कारणे इत्यर्थः । बन्धं सहेतुकं मोक्षं च सहेतुकं या वेत्ति विजानाति बुद्धिः, सा पार्थ सात्त्विकी । तत्र ज्ञानं बुद्धेः वृत्तिः ; बुद्धिस्तु वृत्तिमती । धृतिरपि वृत्तिविशेषः एव बुद्धेः ॥ ३० ॥

३१31

यया धर्ममधर्मं च  
कार्यं चाकार्यमेव च ।  
अयथावत्प्रजानाति  
बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
yayā dharmamadharmaṃ ca  
kāryaṃ cākāryameva ca |  
ayathāvatprajānāti  
buddhiḥ sā pārtha rājasī || 31 ||

यया धर्मं शास्त्रचोदितम् अधर्मं च तत्प्रतिषिद्धं कार्यं च अकार्यमेव च पूर्वोक्ते एव कार्याकार्ये अयथावत् न यथावत् सर्वतः निर्णयेन न प्रजानाति, बुद्धिः सा पार्थ, राजसी ॥ ३१ ॥

३२32

अधर्मं धर्ममिति या  
मन्यते तमसावृता ।  
सर्वार्थान्विपरीतांश्च  
बुद्धिः सा पार्थ तामसी ॥ ३२ ॥
adharmaṃ dharmamiti yā  
manyate tamasāvṛtā |  
sarvārthānviparītāṃśca  
buddhiḥ sā pārtha tāmasī || 32 ||

अधर्मं प्रतिषिद्धं धर्मं विहितम् इति या मन्यते जानाति तमसा आवृता सती, सर्वार्थान् सर्वानेव ज्ञेयपदार्थान् विपरीतांश्च विपरीतानेव विजानाति, बुद्धिः सा पार्थ, तामसी ॥ ३२ ॥

३३33

धृत्या यया धारयते  
मनःप्राणेन्द्रियक्रियाः ।  
योगेनाव्यभिचारिण्या  
धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
dhṛtyā yayā dhārayate  
manaḥprāṇendriyakriyāḥ |  
yogenāvyabhicāriṇyā  
dhṛtiḥ sā pārtha sāttvikī || 33 ||

धृत्या यया — अव्यभिचारिण्या इति व्यवहितेन सम्बन्धः, धारयते ; किम् ? मनःप्राणेन्द्रियक्रियाः मनश्च प्राणाश्च इन्द्रियाणि च मनःप्राणेन्द्रियाणि, तेषां क्रियाः चेष्टाः, ताः उच्छास्त्रमार्गप्रवृत्तेः धारयते धारयति — धृत्या हि धार्यमाणाः उच्छास्त्रमार्गविषयाः न भवन्ति — योगेन समाधिना, अव्यभिचारिण्या, नित्यसमाध्यनुगतया इत्यर्थः । एतत् उक्तं भवति — अव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः धार्यमाणाः योगेन धारयतीति । या एवंलक्षणा धृतिः, सा पार्थ, सात्त्विकी ॥ ३३ ॥

३४34

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।  
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna |  
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī || 34 ||

यया तु धर्मकामार्थान् धर्मश्च कामश्च अर्थश्च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यमेव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी ॥ ३४ ॥

३५35

यया स्वप्नं भयं शोकं  
विषादं मदमेव च ।  
न विमुञ्चति दुर्मेधा  
धृतिः सा तामसी मता ॥ ३५ ॥
yayā svapnaṃ bhayaṃ śokaṃ  
viṣādaṃ madameva ca |  
na vimuñcati durmedhā  
dhṛtiḥ sā tāmasī matā || 35 ||

यया स्वप्नं निद्रां भयं त्रासं शोकं विषादं विषण्णतां मदं विषयसेवाम् आत्मनः बहुमन्यमानः मत्त इव मदम् एव च मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारयत्येव दुर्मेधाः कुत्सितमेधाः पुरुषः यः, तस्य धृतिः या, सा तामसी मता ॥ ३५ ॥

३६36

सुखं त्विदानीं त्रिविधं  
शृणु मे भरतर्षभ ।  
अभ्यासाद्रमते यत्र  
दुःखान्तं च निगच्छति ॥ ३६ ॥
sukhaṃ tvidānīṃ trividhaṃ  
śṛṇu me bharatarṣabha |  
abhyāsādramate yatra  
duḥkhāntaṃ ca nigacchati || 36 ||

सुखं तु इदानीं त्रिविधं शृणु, समाधानं कुरु इत्येतत् , मे मम भरतर्षभ । अभ्यासात् परिचयात् आवृत्तेः रमते रतिं प्रतिपद्यते यत्र यस्मिन् सुखानुभवे दुःखान्तं च दुःखावसानं दुःखोपशमं च निगच्छति निश्चयेन प्राप्नोति ॥ ३६ ॥

३७37

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।  
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥
yattadagre viṣamiva pariṇāme'mṛtopamam |  
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam || 37 ||

यत् तत् सुखम् अग्रे पूर्वं प्रथमसन्निपाते ज्ञानवैराग्यध्यानसमाध्यारम्भे अत्यन्तायासपूर्वकत्वात् विषमिव दुःखात्मकं भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजं सुखम् अमृतोपमम् , तत् सुखं सात्त्विकं प्रोक्तं विद्वद्भिः, आत्मनः बुद्धिः आत्मबुद्धिः, आत्मबुद्धेः प्रसादः नैर्मल्यं सलिलस्य इव स्वच्छता, ततः जातं आत्मबुद्धिप्रसादजम् । आत्मविषया वा आत्मावलम्बना वा बुद्धिः आत्मबुद्धिः, तत्प्रसादप्रकर्षाद्वा जातमित्येतत् । तस्मात् सात्त्विकं तत् ॥ ३७ ॥

३८38

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।  
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥
viṣayendriyasaṃyogādyattadagre'mṛtopamam |  
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam || 38 ||

विषयेन्द्रियसंयोगात् जायते यत् सुखम् तत् सुखम् अग्रे प्रथमक्षणे अमृतोपमम् अमृतसमम् , परिणामे विषमिव, बलवीर्यरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वात् अधर्मतज्जनितनरकादिहेतुत्वाच्च परिणामे तदुपभोगपरिणामान्ते विषमिव, तत् सुखं राजसं स्मृतम् ॥ ३८ ॥

३९39

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।  
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ |  
nidrālasyapramādotthaṃ tattāmasamudāhṛtam || 39 ||

यत् अग्रे च अनुबन्धे च अवसानोत्तरकाले च सुखं मोहनं मोहकरम् आत्मनः निद्रालस्यप्रमादोत्थं निद्रा च आलस्यं च प्रमादश्च तेभ्यः समुत्तिष्ठतीति निद्रालस्यप्रमादोत्थम् , तत् तामसम् उदाहृतम् ॥ ३९ ॥

४०40

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।  
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ ४० ॥
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ |  
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ || 40 ||

न तत् अस्ति तत् नास्ति पृथिव्यां वा मनुष्यादिषु सत्त्वं प्राणिजातम् अन्यद्वा अप्राणि, दिवि देवेषु वा पुनः सत्त्वम् , प्रकृतिजैः प्रकृतितः जातैः एभिः त्रिभिः गुणैः सत्त्वादिभिः मुक्तं परित्यक्तं यत् स्यात् , न तत् अस्ति इति पूर्वेण सम्बन्धः ॥ ४० ॥

४१41

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।  
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa |  
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ || 41 ||

ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्मणक्षत्रियविशः, तेषां ब्राह्मणक्षत्रियविशां शूद्राणां च — शूद्राणाम् असमासकरणम् एकजातित्वे सति वेदानधिकारात् — हे परन्तप, कर्माणि प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानि । केन ? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम् । अथवा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम् , तथा क्षत्रियस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनं तमः प्रभवः, प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनात् चतुर्णाम् । अथवा, जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभिमुखत्वेन अभिव्यक्तः स्वभावः, सः प्रभवो येषां गुणानां ते स्वभावप्रभवाः गुणाः ; गुणप्रादुर्भावस्य निष्कारणत्वानुपपत्तेः । ‘स्वभावः कारणम्’ इति च कारणविशेषोपादानम् । एवं स्वभावप्रभवैः प्रकृतिभवैः सत्त्वरजस्तमोभिः गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि प्रविभक्तानि ॥

ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि ; कथम् उच्यते सत्त्वादिगुणप्रविभक्तानि इति ? नैष दोषः ; शास्त्रेणापि ब्राह्मणादीनां सत्त्वादिगुणविशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि, न गुणानपेक्षया, इति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानि इति उच्यते ॥ ४१ ॥

४२42

शमो दमस्तपः शौचं  
क्षान्तिरार्जवमेव च ।  
ज्ञानं विज्ञानमास्तिक्यं  
ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥
śamo damastapaḥ śaucaṃ  
kṣāntirārjavameva ca |  
jñānaṃ vijñānamāstikyaṃ  
brahmakarma svabhāvajam || 42 ||

शमः दमश्च यथाव्याख्यातार्थौ, तपः यथोक्तं शारीरादि, शौचं व्याख्यातम् , क्षान्तिः क्षमा, आर्जवम् ऋजुता एव च ज्ञानं विज्ञानम् , आस्तिक्यम् आस्तिकभावः श्रद्दधानता आगमार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम् — यत् उक्तं स्वभावप्रभवैर्गुणैः प्रविभक्तानि इति तदेवोक्तं स्वभावजम् इति ॥ ४२ ॥

४३43

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।  
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam |  
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam || 43 ||

शौर्यं शूरस्य भावः, तेजः प्रागल्भ्यम् , धृतिः धारणम् , सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य, दाक्ष्यं दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः, युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः, दानं देयद्रव्येषु मुक्तहस्तता, ईश्वरभावश्च ईश्वरस्य भावः, प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति, क्षात्रं कर्म क्षत्रियजातेः विहितं कर्म क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

४४44

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।  
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam |  
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam || 44 ||

कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृषिगौरक्ष्यवाणिज्यम् , कृषिः भूमेः विलेखनम् , गौरक्ष्यं गाः रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम् , पाशुपाल्यम् इत्यर्थः, वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम् । परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

४५45

स्वे स्वे कर्मण्यभिरतः  
संसिद्धिं लभते नरः ।  
स्वकर्मनिरतः सिद्धिं  
यथा विन्दति तच्छृणु ॥ ४५ ॥
sve sve karmaṇyabhirataḥ  
saṃsiddhiṃ labhate naraḥ |  
svakarmanirataḥ siddhiṃ  
yathā vindati tacchṛṇu || 45 ||

स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिं स्वकर्मानुष्ठानात् अशुद्धिक्षये सति कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरः अधिकृतः पुरुषः ; किं स्वकर्मानुष्ठानत एव साक्षात् संसिद्धिः ? न ; कथं तर्हि ? स्वकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति, तत् शृणु ॥ ४५ ॥

४६46

यतः प्रवृत्तिर्भूतानां  
येन सर्वमिदं ततम् ।  
स्वकर्मणा तमभ्यर्च्य  
सिद्धिं विन्दति मानवः ॥ ४६ ॥
yataḥ pravṛttirbhūtānāṃ  
yena sarvamidaṃ tatam |  
svakarmaṇā tamabhyarcya  
siddhiṃ vindati mānavaḥ || 46 ||

यतः यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्मात् अन्तर्यामिणः ईश्वरात् भूतानां प्राणिनां स्यात् , येन ईश्वरेण सर्वम् इदं ततं जगत् व्याप्तं स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम् ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं विन्दति मानवः मनुष्यः ॥ ४६ ॥

४७47

श्रेयान्स्वधर्मो विगुणः  
परधर्मात्स्वनुष्ठितात् ।  
स्वभावनियतं कर्म  
कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥
śreyānsvadharmo viguṇaḥ  
paradharmātsvanuṣṭhitāt |  
svabhāvaniyataṃ karma  
kurvannāpnoti kilbiṣam || 47 ||

श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः, विगुणोऽपि इति अपिशब्दो द्रष्टव्यः, परधर्मात् । स्वभावनियतं स्वभावेन नियतम् , यदुक्तं स्वभावजमिति, तदेवोक्तं स्वभावनियतम् इति ; यथा विषजातस्य कृमेः विषं न दोषकरम् , तथा स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषं पापम् ॥ ४७ ॥

४८48

सहजं कर्म कौन्तेय  
सदोषमपि न त्यजेत् ।  
सर्वारम्भा हि दोषेण  
धूमेनाग्निरिवावृताः ॥ ४८ ॥
sahajaṃ karma kaunteya  
sadoṣamapi na tyajet |  
sarvārambhā hi doṣeṇa  
dhūmenāgnirivāvṛtāḥ || 48 ||

सहजं सह जन्मनैव उत्पन्नम् । किं तत् ? कर्म कौन्तेय सदोषमपि त्रिगुणात्मकत्वात् न त्यजेत् । सर्वारम्भाः आरभ्यन्त इति आरम्भाः, सर्वकर्माणि इत्येतत् ; प्रकरणात् ये केचित् आरम्भाः स्वधर्माः परधर्माश्च, ते सर्वे हि यस्मात् — त्रिगुणात्मकत्वम् अत्र हेतुः — त्रिगुणात्मकत्वात् दोषेण धूमेन सहजेन अग्निरिव, आवृताः । सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषात् नैव मुच्यते ; भयावहश्च परधर्मः । न च शक्यते अशेषतः त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् न त्यजेत् इत्यर्थः ॥

किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत् ? किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं च अतः ? यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यं सहजं कर्म, एवं तर्हि अशेषतः त्यागे गुण एव स्यादिति सिद्धं भवति । सत्यम् एवम् ; अशेषतः त्याग एव न उपपद्यते इति चेत् , किं नित्यप्रचलितात्मकः पुरुषः, यथा साङ्ख्यानां गुणाः ? किं वा क्रियैव कारकम् , यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः ? उभयथापि कर्मणः अशेषतः त्यागः न सम्भवति । अथ तृतीयोऽपि पक्षः — यदा करोति तदा सक्रियं वस्तु । यदा न करोति, तदा निष्क्रियं तदेव । तत्र एवं सति शक्यं कर्म अशेषतः त्यक्तुम् । अयं तु अस्मिन् तृतीये पक्षे विशेषः — न नित्यप्रचलितं वस्तु, नापि क्रियैव कारकम् । किं तर्हि ? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते, विद्यमाना च विनश्यति । शुद्धं तत् द्रव्यं शक्तिमत् अवतिष्ठते । इति एवम् आहुः काणादाः । तदेव च कारकम् इति । अस्मिन् पक्षे को दोषः इति । अयमेव तु दोषः — यतस्तु अभागवतं मतम् इदम् । कथं ज्ञायते ? यतः आह भगवान् ‘नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यादि । काणादानां हि असतः भावः, सतश्च अभावः, इति इदं मतम् अभागवतम् । अभागवतमपि न्यायवच्चेत् को दोषः इति चेत् , उच्यते — दोषवत्तु इदम् , सर्वप्रमाणविरोधात् । कथम् ? यदि तावत् द्व्यणुकादि द्रव्यं प्राक् उत्पत्तेः अत्यन्तमेव असत् , उत्पन्नं च स्थितं कञ्चित् कालं पुनः अत्यन्तमेव असत्त्वम् आपद्यते, तथा च सति असदेव सत् जायते, सदेव असत्त्वम् आपद्यते, अभावः भावो भवति, भावश्च अभावो भवति ; तत्र अभावः जायमानः प्राक् उत्पत्तेः शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यं कारणम् अपेक्ष्य जायते इति । न च एवम् अभावः उत्पद्यते, कारणं च अपेक्षते इति शक्यं वक्तुम् , असतां शशविषाणादीनाम् अदर्शनात् । भावात्मकाश्चेत् घटादयः उत्पद्यमानाः, किञ्चित् अभिव्यक्तिमात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति शक्यं प्रतिपत्तुम् । किञ्च, असतश्च सतश्च सद्भावे असद्भावे न क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित् स्यात् , ‘सत् सदेव असत् असदेव’ इति निश्चयानुपपत्तेः ॥

किञ्च, उत्पद्यते इति द्व्यणुकादेः द्रव्यस्य स्वकारणसत्तासम्बन्धम् आहुः । प्राक् उत्पत्तेश्च असत् , पश्चात् कारणव्यापारम् अपेक्ष्य स्वकारणैः परमाणुभिः सत्तया च समवायलक्षणेन सम्बन्धेन सम्बध्यते । सम्बद्धं सत् कारणसमवेतं सत् भवति । तत्र वक्तव्यं कथम् असतः स्वं कारणं भवेत् सम्बन्धो वा केनचित् स्यात् ? न हि वन्ध्यापुत्रस्य स्वं कारणं सम्बन्धो वा केनचित् प्रमाणतः कल्पयितुं शक्यते ॥

ननु नैवं वैशेषिकैः अभावस्य सम्बन्धः कल्प्यते । द्व्यणुकादीनां हि द्रव्याणां स्वकारणसमवायलक्षणः सम्बन्धः सतामेव उच्यते इति । न ; सम्बन्धात् प्राक् सत्त्वानभ्युपगमात् । न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात् प्राक् घटादीनाम् अस्तित्वम् इष्यते । न च मृद एव घटाद्याकारप्राप्तिम् इच्छन्ति । ततश्च असत एव सम्बन्धः पारिशेष्यात् इष्टो भवति ॥

ननु असतोऽपि समवायलक्षणः सम्बन्धः न विरुद्धः । न ; वन्ध्यापुत्रादीनाम् अदर्शनात् । घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवति न वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वेऽपि इति विशेषः अभावस्य वक्तव्यः । एकस्य अभावः, द्वयोः अभावः, सर्वस्य अभावः, प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावः इति लक्षणतो न केनचित् विशेषो दर्शयितुं शक्यः । असति च विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते सम्बध्यते च भावेन कपालाख्येन, सम्बद्धश्च सर्वव्यवहारयोग्यश्च भवति, न तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि, इति प्रध्वंसाद्यभावानां न क्वचित् व्यवहारयोग्यत्वम् , प्रागभावस्यैव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारार्हत्वम् इत्येतत् असमञ्जसम् ; अभावत्वाविशेषात् अत्यन्तप्रध्वंसाभावयोरिव ॥

ननु नैव अस्माभिः प्रागभावस्य भावापत्तिः उच्यते । भावस्यैव तर्हि भावापत्तिः ; यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः । एतदपि अभावस्य भावापत्तिवदेव प्रमाणविरुद्धम् । साङ्ख्यस्यापि यः परिणामपक्षः सोऽपि अपूर्वधर्मोत्पत्तिविनाशाङ्गीकरणात् वैशेषिकपक्षात् न विशिष्यते । अभिव्यक्तितिरोभावाङ्गीकरणेऽपि अभिव्यक्तितिरोभावयोः विद्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधः । एतेन कारणस्यैव संस्थानम् उत्पत्त्यादि इत्येतदपि प्रत्युक्तम् ॥

पारिशेष्यात् सत् एकमेव वस्तु अविद्यया उत्पत्तिविनाशादिधर्मैः अनेकधा नटवत् विकल्प्यते इति । इदं भागवतं मतम् उक्तम् ‘नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यस्मिन् श्लोके, सत्प्रत्ययस्य अव्यभिचारात् , व्यभिचाराच्च इतरेषामिति ॥

कथं तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः न उपपद्यते इति ? यदि वस्तुभूताः गुणाः, यदि वा अविद्याकल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपितमेव इति अविद्वान् ‘न हि कश्चित् क्षणमपि अशेषतः त्यक्तुं शक्नोति’ (भ. गी. ३ । ५) इति उक्तम् । विद्वांस्तु पुनः विद्यया अविद्यायां निवृत्तायां शक्नोत्येव अशेषतः कर्म परित्यक्तुम् , अविद्याध्यारोपितस्य शेषानुपपत्तेः । न हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेषः अवतिष्ठते । एवं च सति इदं वचनम् उपपन्नम् ‘सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यादि, ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’ (भ. गी. १८ । ४५) ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इति च ॥ ४८ ॥

४९49

असक्तबुद्धिः सर्वत्र  
जितात्मा विगतस्पृहः ।  
नैष्कर्म्यसिद्धिं परमां  
सन्न्यासेनाधिगच्छति ॥ ४९ ॥
asaktabuddhiḥ sarvatra  
jitātmā vigataspṛhaḥ |  
naiṣkarmyasiddhiṃ paramāṃ  
sannyāsenādhigacchati || 49 ||

असक्तबुद्धिः असक्ता सङ्गरहिता बुद्धिः अन्तःकरणं यस्य सः असक्तबुद्धिः सर्वत्र पुत्रदारादिषु आसक्तिनिमित्तेषु, जितात्मा जितः वशीकृतः आत्मा अन्तःकरणं यस्य सः जितात्मा, विगतस्पृहः विगता स्पृहा तृष्णा देहजीवितभोगेषु यस्मात् सः विगतस्पृहः, यः एवम्भूतः आत्मज्ञः सः नैष्कर्म्यसिद्धिं निर्गतानि कर्माणि यस्मात् निष्क्रियब्रह्मात्मसम्बोधात् सः निष्कर्मा तस्य भावः नैष्कर्म्यम् , नैष्कर्म्यं च तत् सिद्धिश्च सा नैष्कर्म्यसिद्धिः, निष्कर्मत्वस्य वा निष्क्रियात्मरूपावस्थानलक्षणस्य सिद्धिः निष्पत्तिः, तां नैष्कर्म्यसिद्धिं परमां प्रकृष्टां कर्मजसिद्धिविलक्षणां सद्योमुक्त्यवस्थानरूपां सन्न्यासेन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसन्न्यासेन, अधिगच्छति प्राप्नोति । तथा च उक्तम् — ‘सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्न कारयन्नास्ते’ (भ. गी. ५ । १३) इति ॥ ४९ ॥

५०50

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।  
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |  
samāsenaiva kaunteya niṣṭhā jñānasya yā parā || 50 ||

सिद्धिं प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः — सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः । किं तत् उत्तरम् , यदर्थः अनुवादः इति, उच्यते — यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय इत्येतत् । किं विस्तरेण ? न इति आह — समासेनैव सङ्क्षेपेणैव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोधेति । अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदन्तया दर्शयितुम् आह — ‘निष्ठा ज्ञानस्य या परा’ इति । निष्ठा पर्यवसानं परिसमाप्तिः इत्येतत् । कस्य ? ब्रह्मज्ञानस्य या परा । कीदृशी सा ? यादृशम् आत्मज्ञानम् । कीदृक् तत् ? यादृशः आत्मा । कीदृशः सः ? यादृशो भगवता उक्तः, उपनिषद्वाक्यैश्च न्यायतश्च ॥

ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते क्वचित् । ननु ‘आदित्यवर्णम्’ (श्वे. उ. ३ । ८) ‘भारूपः’ (छा. उ. ३ । १४ । २) ‘स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति आकारवत्त्वम् आत्मनः श्रूयते । न ; तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानाम् — द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि ‘आदित्यवर्णम्’ (श्वे. उ. ३ । ८) इत्यादीनि वाक्यानि । ‘अरूपम्’ (क. उ. १ । ३ । १५) इति च विशेषतः रूपप्रतिषेधात् । अविषयत्वाच्च — ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’ (श्वे. उ. ४ । २०) ‘अशब्दमस्पर्शम्’ (क. उ. १ । ३ । १५) इत्यादेः । तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥

कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति ? न ; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः । बुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः । बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥

देहचैतन्यवादिनश्च लोकायतिकाः ‘चैतन्यविशिष्टः कायः पुरुषः’ इत्याहुः । तथा अन्ये इन्द्रियचैतन्यवादिनः, अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनः । ततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित् । सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं न विधातव्यम् । किं तर्हि ? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या, आत्मचैतन्यविज्ञानं कार्यम् , अविद्याध्यारोपितसर्वपदार्थाकारैः अविशिष्टतया दृश्यमानत्वात् इति । अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां च स्वसंविदितत्वाभ्युपगमेन । तस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्रह्मणि कर्तव्यम् , न तु ब्रह्मविज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात् । अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम् । बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति । तथा चोक्तम् — ‘प्रत्यक्षावगमं धर्म्यम्’ (भ. गी. ९ । २) इत्यादि ॥

केचित्तु पण्डितम्मन्याः ‘निराकारत्वात् आत्मवस्तु न उपैति बुद्धिः । अतः दुःसाध्या सम्यग्ज्ञाननिष्ठा’ इत्याहुः। सत्यम् ; एवं गुरुसम्प्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम् । तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां दुःसम्पादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुपलब्धेः, यथा च ‘एतत् एवमेव, न अन्यथा’ इति अवोचाम ; उक्तं च भगवता ‘यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः’ (भ. गी. २ । ६९) इति । तस्मात् बाह्याकारभेदबुद्धिनिवृत्तिरेव आत्मस्वरूपावलम्बनकारणम् । न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा ; अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन् । न च देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम् । न च सुखार्थं सुखम् , दुःखार्थं दुःखम् । आत्मावगत्यवसानार्थत्वाच्च सर्वव्यवहारस्य । तस्मात् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्षा, ततोऽपि आत्मनः अन्तरतमत्वात् तदवगतिं प्रति न प्रमाणान्तरापेक्षा ; इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम् ॥

येषामपि निराकारं ज्ञानम् अप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम् । जिज्ञासानुपपत्तेश्च — अप्रसिद्धं चेत् ज्ञानम् , ज्ञेयवत् जिज्ञास्येत । यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् । न एतत् अस्ति । अतः अत्यन्तप्रसिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इति । तस्मात् ज्ञाने यत्नो न कर्तव्यः, किं तु अनात्मनि आत्मबुद्धिनिवृत्तावेव । तस्मात् ज्ञाननिष्ठा सुसम्पाद्या ॥ ५० ॥

५१51

बुद्ध्या विशुद्धया युक्तो  
धृत्यात्मानं नियम्य च ।  
शब्दादीन्विषयांस्त्यक्त्वा  
रागद्वेषौ व्युदस्य च ॥ ५१ ॥
buddhyā viśuddhayā yukto  
dhṛtyātmānaṃ niyamya ca |  
śabdādīnviṣayāṃstyaktvā  
rāgadveṣau vyudasya ca || 51 ||

बुद्ध्या अध्यवसायलक्षणया विशुद्धया मायारहितया युक्तः सम्पन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसङ्घातं नियम्य च नियमनं कृत्वा वशीकृत्य, शब्दादीन् शब्दः आदिः येषां तान् विषयान् त्यक्त्वा, सामर्थ्यात् शरीरस्थितिमात्रहेतुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः, शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ व्युदस्य च परित्यज्य च ॥ ५१ ॥

५२52

विविक्तसेवी लघ्वाशी  
यतवाक्कायमानसः ।  
ध्यानयोगपरो नित्यं  
वैराग्यं समुपाश्रितः ॥ ५२ ॥
viviktasevī laghvāśī  
yatavākkāyamānasaḥ |  
dhyānayogaparo nityaṃ  
vairāgyaṃ samupāśritaḥ || 52 ||

विविक्तसेवी अरण्यनदीपुलिनगिरिगुहादीन् विविक्तान् देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी, लघ्वाशी लघ्वशनशीलः — विविक्तसेवालघ्वशनयोः निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणम् ; यतवाक्कायमानसः वाक् च कायश्च मानसं च यतानि संयतानि यस्य ज्ञाननिष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात् । एवम् उपरतसर्वकरणः सन् ध्यानयोगपरः ध्यानम् आत्मस्वरूपचिन्तनम् , योगः आत्मविषये एकाग्रीकरणम् तौ परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यं नित्यग्रहणं मन्त्रजपाद्यन्यकर्तव्याभावप्रदर्शनार्थम् , वैराग्यं विरागस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यक् उपाश्रितः नित्यमेव इत्यर्थः ॥ ५२ ॥

५३53

अहङ्कारं बलं दर्पं  
कामं क्रोधं परिग्रहम् ।  
विमुच्य निर्ममः शान्तो  
ब्रह्मभूयाय कल्पते ॥ ५३ ॥
ahaṅkāraṃ balaṃ darpaṃ  
kāmaṃ krodhaṃ parigraham |  
vimucya nirmamaḥ śānto  
brahmabhūyāya kalpate || 53 ||

अहङ्कारम् अहङ्करणम् अहङ्कारः देहादिषु तम् , बलं सामर्थ्यं कामरागसंयुक्तम् — न इतरत् शरीरादिसामर्थ्यं स्वाभाविकत्वेन तत्त्यागस्य अशक्यत्वात् — दर्पं दर्पो नाम हर्षानन्तरभावी धर्मातिक्रमहेतुः ‘हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति’ (आ. ध. सू. १ । १३ । ४) इति स्मरणात् ; तं च, कामम् इच्छां क्रोधं द्वेषं परिग्रहम् इन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तः, तं च विमुच्य परित्यज्य, परमहंसपरिव्राजको भूत्वा, देहजीवनमात्रेऽपि निर्गतममभावः निर्ममः, अत एव शान्तः उपरतः, यः संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय कल्पते समर्थो भवति ॥ ५३ ॥

५४54

ब्रह्मभूतः प्रसन्नात्मा  
न शोचति न काङ्क्षति ।  
समः सर्वेषु भूतेषु  
मद्भक्तिं लभते पराम् ॥ ५४ ॥
brahmabhūtaḥ prasannātmā  
na śocati na kāṅkṣati |  
samaḥ sarveṣu bhūteṣu  
madbhaktiṃ labhate parām || 54 ||

ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः न शोचति, किञ्चित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा उद्दिश्य न शोचति न सन्तप्यते ; न काङ्क्षति, न हि अप्राप्तविषयाकाङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं स्वभावः अनूद्यते — न शोचति न काङ्क्षति इति । ‘न हृष्यति’ इति वा पाठान्तरम् । समः सर्वेषु भूतेषु, आत्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः । न आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात् ‘भक्त्या मामभिजानाति’ (भ. गी. १८ । ५५) इति । एवम्भूतः ज्ञाननिष्ठः, मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमां ज्ञानलक्षणां चतुर्थीं लभते, ‘चतुर्विधा भजन्ते माम्’ (भ. गी. ७ । १६) इति हि उक्तम् ॥ ५४ ॥

५५55

भक्त्या मामभिजानाति  
यावान्यश्चास्मि तत्त्वतः ।  
ततो मां तत्त्वतो ज्ञात्वा  
विशते तदनन्तरम् ॥ ५५ ॥
bhaktyā māmabhijānāti  
yāvānyaścāsmi tattvataḥ |  
tato māṃ tattvato jñātvā  
viśate tadanantaram || 55 ||

भक्त्या माम् अभिजानाति यावान् अहम् उपाधिकृतविस्तरभेदः, यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति । ततः माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम् । नात्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते ‘ज्ञात्वा विशते तदनन्तरम्’ इति । किं तर्हि ? फलान्तराभावात् ज्ञानमात्रमेव, ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इति उक्तत्वात् ॥

ननु विरुद्धम् इदम् उक्तम् ‘ज्ञानस्य या परा निष्ठा तया माम् अभिजानाति’ इति । कथं विरुद्धम् इति चेत् , उच्यते — यदैव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातुः, तदैव तं विषयम् अभिजानाति ज्ञाता इति न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणाम् अपेक्षते इति ; अतश्च ज्ञानेन न अभिजानाति, ज्ञानावृत्त्या तु ज्ञाननिष्ठया अभिजानातीति । नैष दोषः ; ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रतिपक्षविहीनस्य यत् आत्मानुभवनिश्चयावसानत्वं तस्य निष्ठाशब्दाभिलापात् । शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिहेतुं सहकारिकारणं बुद्धिविशुद्धत्वादि अमानित्वादिगुणं च अपेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्तृत्वादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसन्न्याससहितस्य स्वात्मानुभवनिश्चयरूपेण यत् अवस्थानम् , सा परा ज्ञाननिष्ठा इति उच्यते । सा इयं ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्तिरिति उक्ता । तया परया भक्त्या भगवन्तं तत्त्वतः अभिजानाति, यदनन्तरमेव ईश्वरक्षेत्रज्ञभेदबुद्धिः अशेषतः निवर्तते । अतः ज्ञाननिष्ठालक्षणया भक्त्या माम् अभिजानातीति वचनं न विरुध्यते ।

अत्र च सर्वं निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं न्यायप्रसिद्धम् अर्थवत् भवति — ‘विदित्वा . . . व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) ‘तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) ‘न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति । ‘सन्न्यासः कर्मणां न्यासः’ ( ? ) ‘वेदानिमं च लोकममुं च परित्यज्य’ (आ. ध. २ । ९ । १३) ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९ । ४०) इत्यादि । इह च प्रदर्शितानि वाक्यानि । न च तेषां वाक्यानाम् आनर्थक्यं युक्तम् ; न च अर्थवादत्वम् , स्वप्रकरणस्थत्वात् , प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य । न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा समानमार्गत्वं सम्भवति । प्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशश्च ज्ञाननिष्ठा ; सा च प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् विरोधः प्रमाणविदां निश्चितः । तस्मात् सर्वकर्मसन्न्यासेनैव ज्ञाननिष्ठा कार्या इति सिद्धम् ॥ ५५ ॥

५६56

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।  
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |  
matprasādādavāpnoti śāśvataṃ padamavyayam || 56 ||

सर्वकर्माण्यपि प्रतिषिद्धान्यपि सदा कुर्वाणः अनुतिष्ठन् मद्व्यपाश्रयः अहं वासुदेवः ईश्वरः व्यपाश्रयो व्यपाश्रयणं यस्य सः मद्व्यपाश्रयः मय्यर्पितसर्वभावः इत्यर्थः । सोऽपि मत्प्रसादात् मम ईश्वरस्य प्रसादात् अवाप्नोति शाश्वतं नित्यं वैष्णवं पदम् अव्ययम् ॥ ५६ ॥

५७57

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।  
बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥
cetasā sarvakarmāṇi mayi sannyasya matparaḥ |  
buddhiyogamapāśritya maccittaḥ satataṃ bhava || 57 ||

चेतसा विवेकबुद्ध्या सर्वकर्माणि दृष्टादृष्टार्थानि मयि ईश्वरे सन्न्यस्य ‘यत् करोषि यदश्नासि’ (भ. गी. ९ । २७) इति उक्तन्यायेन, मत्परः अहं वासुदेवः परो यस्य तव सः त्वं मत्परः सन् मय्यर्पितसर्वात्मभावः बुद्धियोगं समाहितबुद्धित्वं बुद्धियोगः तं बुद्धियोगम् अपाश्रित्य अपाश्रयः अनन्यशरणत्वं मच्चित्तः मय्येव चित्तं यस्य तव सः त्वं मच्चित्तः सततं सर्वदा भव ॥ ५७ ॥

५८58

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।  
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi |  
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi || 58 ||

मच्चित्तः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात् तरिष्यसि अतिक्रमिष्यसि । अथ चेत् यदि त्वं मदुक्तम् अहङ्कारात् ‘पण्डितः अहम्’ इति न श्रोष्यसि न ग्रहीष्यसि, ततः त्वं विनङ्क्ष्यसि विनाशं गमिष्यसि ॥ ५८ ॥

५९59

यद्यहङ्कारमाश्रित्य  
न योत्स्य इति मन्यसे ।  
मिथ्यैष व्यवसायस्ते  
प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥
yadyahaṅkāramāśritya  
na yotsya iti manyase |  
mithyaiṣa vyavasāyaste  
prakṛtistvāṃ niyokṣyati || 59 ||

यदि चेत् त्वम् अहङ्कारम् आश्रित्य न योत्स्ये इति न युद्धं करिष्यामि इति मन्यसे चिन्तयसि निश्चयं करोषि, मिथ्या एषः व्यवसायः निश्चयः ते तव ; यस्मात् प्रकृतिः क्षत्रियस्वभावः त्वां नियोक्ष्यति ॥ ५९ ॥

६०60

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।  
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |  
kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat || 60 ||

स्वभावजेन शौर्यादिना यथोक्तेन कौन्तेय निबद्धः निश्चयेन बद्धः स्वेन आत्मीयेन कर्मणा कर्तुं न इच्छसि यत् कर्म, मोहात् अविवेकतः करिष्यसि अवशोऽपि परवश एव तत् कर्म ॥ ६० ॥

६१61

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।  
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati |  
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā || 61 ||

ईश्वरः ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तःकरणः — ‘अहश्च कृष्णमहरर्जुनं च’ (ऋ. मं. ६ । १ । ९ । १) इति दर्शनात् — तिष्ठति स्थितिं लभते । तेषु सः कथं तिष्ठतीति, आह — भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इव — इति इवशब्दः अत्र द्रष्टव्यः — यथा दारुकृतपुरुषादीनि यन्त्रारूढानि । मायया च्छद्मना भ्रामयन् तिष्ठति इति सम्बन्धः ॥ ६१ ॥

६२62

तमेव शरणं गच्छ  
सर्वभावेन भारत ।  
तत्प्रसादात्परां शान्तिं  
स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
tameva śaraṇaṃ gaccha  
sarvabhāvena bhārata |  
tatprasādātparāṃ śāntiṃ  
sthānaṃ prāpsyasi śāśvatam || 62 ||

तमेव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं गच्छ आश्रय सर्वभावेन सर्वात्मना हे भारत । ततः तत्प्रसादात् ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं स्थानं च मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् ॥ ६२ ॥

६३63

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।  
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā |  
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru || 63 ||

इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्यात् गोप्यात् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थः, मया सर्वज्ञेन ईश्वरेण । विमृश्य विमर्शनम् आलोचनं कृत्वा एतत् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं च अर्थजातं यथा इच्छसि तथा कुरु ॥ ६३ ॥

६४64

सर्वगुह्यतमं भूयः  
शृणु मे परमं वचः ।  
इष्टोऽसि मे दृढमिति  
ततो वक्ष्यामि ते हितम् ॥ ६४ ॥
sarvaguhyatamaṃ bhūyaḥ  
śṛṇu me paramaṃ vacaḥ |  
iṣṭo'si me dṛḍhamiti  
tato vakṣyāmi te hitam || 64 ||

सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्तरहस्यम् , उक्तमपि असकृत् भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचः वाक्यम् । न भयात् नापि अर्थकारणाद्वा वक्ष्यामि ; किं तर्हि ? इष्टः प्रियः असि मे मम दृढम् अव्यभिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनम् , तद्धि सर्वहितानां हिततमम् ॥ ६४ ॥

६५65

मन्मना भव मद्भक्तो  
मद्याजी मां नमस्कुरु ।  
मामेवैष्यसि सत्यं ते  
प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥
manmanā bhava madbhakto  
madyājī māṃ namaskuru |  
māmevaiṣyasi satyaṃ te  
pratijāne priyo'si me || 65 ||

मन्मनाः भव मच्चित्तः भव । मद्भक्तः भव मद्भजनो भव । मद्याजी मद्यजनशीलो भव । मां नमस्कुरु नमस्कारम् अपि ममैव कुरु । तत्र एवं वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः मामेव एष्यसि आगमिष्यसि । सत्यं ते तव प्रतिजाने, सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः असि मे । एवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यम्भावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः ॥ ६५ ॥

६६66

सर्वधर्मान्परित्यज्य  
मामेकं शरणं व्रज ।  
अहं त्वा सर्वपापेभ्यो  
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
sarvadharmānparityajya  
māmekaṃ śaraṇaṃ vraja |  
ahaṃ tvā sarvapāpebhyo  
mokṣayiṣyāmi mā śucaḥ || 66 ||

सर्वधर्मान् सर्वे च ते धर्माश्च सर्वधर्माः तान् — धर्मशब्देन अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात् , ‘नाविरतो दुश्चरितात्’ (क. उ. १ । २ । २४) ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९ । ४०) इत्यादिश्रुतिस्मृतिभ्यः — सर्वधर्मान् परित्यज्य सन्न्यस्य सर्वकर्माणि इत्येतत् । माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम् ‘अहमेव’ इत्येवं शरणं व्रज, न मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः । अहं त्वा त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन । उक्तं च ‘नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ (भ. गी. १० । ११) इति । अतः मा शुचः शोकं मा कार्षीः इत्यर्थः ॥

अस्मिन्गीताशास्त्रे परमनिःश्रेयससाधनं निश्चितं किं ज्ञानम् , कर्म वा, आहोस्वित् उभयम् ? इति । कुतः संशयः ? ‘यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ (भ. गी. १८ । ५५) इत्यादीनि वाक्यानि केवलाज्ज्ञानात् निःश्रेयसप्राप्तिं दर्शयन्ति । ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) ‘कुरु कर्मैव’ (भ. गी. ४ । १५) इत्येवमादीनि कर्मणामवश्यकर्तव्यतां दर्शयन्ति । एवं ज्ञानकर्मणोः कर्तव्यत्वोपदेशात् समुच्चितयोरपि निःश्रेयसहेतुत्वं स्यात् इति भवेत् संशयः कस्यचित् । किं पुनरत्र मीमांसाफलम् ? ननु एतदेव — एषामन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम् ; अतः विस्तीर्णतरं मीमांस्यम् एतत् ॥

आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम् , भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसायित्वात् । क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता — ‘मम कर्म, अहं कर्तामुष्मै फलायेदं कर्म करिष्यामि’ इति इयम् अविद्या अनादिकालप्रवृत्ता । अस्या अविद्यायाः निवर्तकम् ‘अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः ; न मत्तोऽन्योऽस्ति कश्चित्’ इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम् , कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात् । तु - शब्दः पक्षव्यावृत्त्यर्थः — न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयति । अकार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः । न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते । केवलं ज्ञानमपि अनर्थकं तर्हि ? न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात् । अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम् , रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत् । विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलम् ; तथा ज्ञानम् । दृष्टार्थानां च च्छिदिक्रियाग्निमन्थनादीनां व्यापृतकर्त्रादिकारकाणां द्वैधीभावाग्निदर्शनादिफलात् अन्यफले कर्मान्तरे वा व्यापारानुपपत्तिः यथा, तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते । भुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत् , न ; कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः । कैवल्यफले हि ज्ञाने प्राप्ते, सर्वतःसम्प्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वाभाववत् , फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थित्वानुपपत्तिः । न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते, तद्विषयं वा अर्थित्वम् । तस्मात् न कर्मणोऽस्ति निःश्रेयससाधनत्वम् । न च ज्ञानकर्मणोः समुच्चितयोः । नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा, अविद्यानिवर्तकत्वेन विरोधात् । न हि तमः तमसः निवर्तकम् । अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति । न ; नित्याकरणे प्रत्यवायप्राप्तेः, कैवल्यस्य च नित्यत्वात् । यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत् , तत् असत् ; यतः नित्यानां कर्मणां श्रुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात् । ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एव । नैष दोषः ; नित्यत्वात् मोक्षस्य । नित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः, प्रतिषिद्धस्य च अकरणात् अनिष्टशरीरानुपपत्तिः, काम्यानां च वर्जनात् इष्टाशरीरानुपपत्तिः, वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावात् आत्मनः रागादीनां च अकरणे स्वरूपावस्थानमेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इति । अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत् , न ; नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः । प्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थं नित्यं कर्म । आरब्धानां च कर्मणाम् उपभोगेनैव क्षीणत्वात् अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यमिति । न ; ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति विद्याया अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः, चर्मवदाकाशवेष्टनासम्भववत् अविदुषः मोक्षासम्भवश्रुतेः, ‘ज्ञानात्कैवल्यमाप्नोति’ ( ? ) इति च पुराणस्मृतेः ; अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च । यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां सम्भवः, तथा पुण्यानाम् अनारब्धफलानां स्यात्सम्भवः । तेषां च देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः । धर्माधर्महेतूनां च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः । नित्यानां च कर्मणां पुण्यफलत्वश्रुतेः, ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः’ (गौ. ध. सू. २ । २ । २९) इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः ॥

ये तु आहुः — नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेण अन्यत् फलम् अस्ति, अश्रुतत्वात् , जीवनादिनिमित्ते च विधानात् इति । न अप्रवृत्तानां कर्मणां फलदानासम्भवात् ; दुःखफलविशेषानुपपत्तिश्च स्यात् । यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तदसत् । न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः । अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि नरकफलोपभोगानुपपत्तिः न स्यात् । तस्य दुरितस्य दुःखविशेषफलत्वानुपपत्तेश्च — अनेकेषु हि दुरितेषु सम्भवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते कल्पयितुम् , नित्यकर्मानुष्ठानायासदुःखमेव पूर्वोपात्तदुरितफलं न शिरसा पाषाणवहनादिदुःखमिति । अप्रकृतं च इदम् उच्यते — नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरितकर्मफलम् इति । कथम् ? अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयः न उपपद्यत इति प्रकृतम् । तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखम् आह भवान् , न अप्रसूतफलस्येति । अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान् , ततः नित्यकर्मानुष्ठानायासदुःखमेव फलम् इति विशेषणम् अयुक्तम् । नित्यकर्मविध्यानर्थक्यप्रसङ्गश्च, उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किञ्च, श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलम् , नित्यकर्मानुष्ठानायासादेव तत् दृश्यते व्यायामादिवत् ; तत् अन्यस्य इति कल्पनानुपपत्तिः । जीवनादिनिमित्ते च विधानात् , नित्यानां कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्वानुपपत्तिः । यस्मिन् पापकर्मणि निमित्ते यत् विहितं प्रायश्चित्तम् न तु तस्य पापस्य तत् फलम् । अथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तदुःखं फलम् , जीवनादिनिमित्तेऽपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत, नित्यप्रायश्चित्तयोः नैमित्तिकत्वाविशेषात् । किञ्च अन्यत् — नित्यस्य काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्वात् नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फलम् , न तु काम्यानुष्ठानायासदुःखम् इति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत । तथा च सति नित्यानां फलाश्रवणात् तद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलम् इति अर्थापत्तिकल्पना च अनुपपन्ना, एवं विधानान्यथानुपपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानाम् । विरोधाच्च ; विरुद्धं च इदम् उच्यते — नित्यकर्मणा अनुष्टीयमानेन अन्यस्य कर्मणः फलं भुज्यते इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मणः फलम् इति, नित्यस्य कर्मणः फलाभाव इति च विरुद्धम् उच्यते । किञ्च, काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमपि अग्निहोत्रादि तन्त्रेणैव अनुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादिफलम् उपक्षीणं स्यात् , तत्तन्त्रत्वात् । अथ काम्याग्निहोत्रादिफलम् अन्यदेव स्वर्गादि, तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत । न च तदस्ति, दृष्टविरोधात् ; न हि काम्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं भिन्नं दृश्यते । किञ्च अन्यत् — अविहितमप्रतिषिद्धं च कर्म तत्कालफलम् , न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेत् । तदा स्वर्गादिष्वपि अदृष्टफलाशासनेन उद्यमो न स्यात् — अग्निहोत्रादीनामेव कर्मस्वरूपाविशेषे अनुष्ठानायासदुःखमात्रेण उपक्षयः नित्यानाम् ; स्वर्गादिमहाफलत्वं काम्यानाम् , अङ्गेतिकर्तव्यताद्याधिक्ये तु असति, फलकामित्वमात्रेणेति । तस्माच्च न नित्यानां कर्मणाम् अदृष्टफलाभावः कदाचिदपि उपपद्यते । अतश्च अविद्यापूर्वकस्य कर्मणः विद्यैव शुभस्य अशुभस्य वा क्षयकारणम् अशेषतः, न नित्यकर्मानुष्ठानम् । अविद्याकामबीजं हि सर्वमेव कर्म । तथा च उपपादितमविद्वद्विषयं कर्म, विद्वद्विषया च सर्वकर्मसन्न्यासपूर्विका ज्ञाननिष्ठा — ‘उभौ तौ न विजानीतः’ (भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’ (भ. गी. २ । २१) ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) ‘अज्ञानां कर्मसङ्गिनाम्’ (भ. गी. ३ । २६) ‘तत्त्ववित्तु महाबाहो गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते’ (भ. गी. ३ । २८) ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते’ (भ. गी. ५ । १३) ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८), अर्थात् अज्ञः करोमि इति ; आरुरुक्षोः कर्म कारणम् , आरूढस्य योगस्थस्य शम एव कारणम् ; उदाराः त्रयोऽपि अज्ञाः, ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) ‘अज्ञाः कर्मिणः गतागतं कामकामाः लभन्ते’ ; अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते ; ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’, अर्थात् न कर्मिणः अज्ञाः उपयान्ति । भगवत्कर्मकारिणः ये युक्ततमा अपि कर्मिणः अज्ञाः, ते उत्तरोत्तरहीनफलत्यागावसानसाधनाः ; अनिर्देश्याक्षरोपासकास्तु ‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इति आध्यायपरिसमाप्ति उक्तसाधनाः क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाश्च । अधिष्ठानादिपञ्चकहेतुकसर्वकर्मसन्न्यासिनां आत्मैकत्वाकर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम् अनिष्टादिकर्मफलत्रयं परमहंसपरिव्राजकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति ; भवत्येव अन्येषामज्ञानां कर्मिणामसन्न्यासिनाम् इत्येषः गीताशास्त्रोक्तकर्तव्यार्थस्य विभागः ॥

अविद्यापूर्वकत्वं सर्वस्य कर्मणः असिद्धमिति चेत् , न ; ब्रह्महत्यादिवत् । यद्यपि शास्त्रावगतं नित्यं कर्म, तथापि अविद्यावत एव भवति । यथा प्रतिषेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति, अन्यथा प्रवृत्त्यनुपपत्तेः, तथा नित्यनैमित्तिककाम्यान्यपीति । देहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत् , न ; चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य ‘अहं करोमि’ इति प्रवृत्तिदर्शनात् । देहादिसङ्घाते अहम्प्रत्ययः गौणः, न मिथ्या इति चेत् , न ; तत्कार्येष्वपि गौणत्वोपपत्तेः । आत्मीये देहादिसङ्घाते अहम्प्रत्ययः गौणः ; यथा आत्मीये पुत्रे ‘आत्मा वै पुत्रनामासि’ (तै. आ. एका. २ । ११) इति, लोके च ‘मम प्राण एव अयं गौः’ इति, तद्वत् । नैवायं मिथ्याप्रत्ययः । मिथ्याप्रत्ययस्तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयोः । न गौणप्रत्ययस्य मुख्यकार्यार्थता, अधिकरणस्तुत्यर्थत्वात् लुप्तोपमाशब्देन । यथा ‘सिंहो देवदत्तः’ ‘अग्निर्माणवकः’ इति सिंह इव अग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात् देवदत्तमाणवकाधिकरणस्तुत्यर्थमेव, न तु सिंहकार्यम् अग्निकार्यं वा गौणशब्दप्रत्ययनिमित्तं किञ्चित्साध्यते ; मिथ्याप्रत्ययकार्यं तु अनर्थमनुभवति इति । गौणप्रत्ययविषयं जानाति ‘नैष सिंहः देवदत्तः’, तथा ‘नायमग्निर्माणवकः’ इति । तथा गौणेन देहादिसङ्घातेन आत्मना कृतं कर्म न मुख्येन अहम्प्रत्ययविषयेण आत्मना कृतं स्यात् । न हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात् । न च क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यं किञ्चित् क्रियते, स्तुत्यर्थत्वेन उपक्षीणत्वात् । स्तूयमानौ च जानीतः ‘न अहं सिंहः’ ‘न अहम् अग्निः’ इति ; न हि ‘सिंहस्य कर्म मम अग्नेश्च’ इति । तथा ‘न सङ्घातस्य कर्म मम मुख्यस्य आत्मनः’ इति प्रत्ययः युक्ततरः स्यात् ; न पुनः ‘अहं कर्ता मम कर्म’ इति । यच्च आहुः ‘आत्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा कर्म करोति’ इति, न ; तेषां मिथ्याप्रत्ययपूर्वकत्वात् । मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः हि स्मृतीच्छाप्रयत्नादयः । यथा अस्मिन् जन्मनि देहादिसङ्घाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च, तथा अतीते अतीततरेऽपि जन्मनि इति अनादिरविद्याकृतः संसारः अतीतोऽनागतश्च अनुमेयः । ततश्च सर्वकर्मसन्न्याससहितज्ञाननिष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम् । अविद्यात्मकत्वाच्च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिः । देहादिसङ्घाते आत्माभिमानः अविद्यात्मकः । न हि लोके ‘गवादिभ्योऽन्योऽहम् , मत्तश्चान्ये गवादयः’ इति जानन् तान् ‘अहम्’ इति मन्यते कश्चित् । अजानंस्तु स्थाणौ पुरुषविज्ञानवत् अविवेकतः देहादिसङ्घाते कुर्यात् ‘अहम्’ इति प्रत्ययम् , न विवेकतः जानन् । यस्तु ‘आत्मा वै पुत्र नामासि’ (तै. आ. एका. २ । ११) इति पुत्रे अहम्प्रत्ययः, स तु जन्यजनकसम्बन्धनिमित्तः गौणः । गौणेन च आत्मना भोजनादिवत् परमार्थकार्यं न शक्यते कर्तुम् , गौणसिंहाग्निभ्यां मुख्यसिंहाग्निकार्यवत् ॥

अदृष्टविषयचोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रियात्मभिः क्रियत एव इति चेत् , न ; अविद्याकृतात्मत्वात्तेषाम् । न च गौणाः आत्मानः देहेन्द्रियादयः ; किं तर्हि ? मिथ्याप्रत्ययेनैव अनात्मानः सन्तः आत्मत्वमापाद्यन्ते, तद्भावे भावात् , तदभावे च अभावात् । अविवेकिनां हि अज्ञानकाले बालानां दृश्यते ‘दीर्घोऽहम्’ ‘गौरोऽहम्’ इति देहादिसङ्घाते अहम्प्रत्ययः । न तु विवेकिनाम् ‘अन्योऽहं देहादिसङ्घातात्’ इति जानतां तत्काले देहादिसङ्घाते अहम्प्रत्ययः भवति । तस्मात् मिथ्याप्रत्ययाभावे अभावात् तत्कृत एव, न गौणः । पृथग्गृह्यमाणविशेषसामान्ययोर्हि सिंहदेवदत्तयोः अग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात् , न अगृह्यमाणविशेषसामान्ययोः । यत्तु उक्तम् ‘श्रुतिप्रामाण्यात्’ इति, तत् न ; तत्प्रामाण्यस्य अदृष्टविषयत्वात् । प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसम्बन्धे श्रुतेः प्रामाण्यम् , न प्रत्यक्षादिविषये, अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्य । तस्मात् न दृष्टमिथ्याज्ञाननिमित्तस्य अहम्प्रत्ययस्य देहादिसङ्घाते गौणत्वं कल्पयितुं शक्यम् । न हि श्रुतिशतमपि ‘शीतोऽग्निरप्रकाशो वा’ इति ब्रुवत् प्रामाण्यमुपैति । यदि ब्रूयात् ‘शीतोऽग्निरप्रकाशो वा’ इति, तथापि अर्थान्तरं श्रुतेः विवक्षितं कल्प्यम् , प्रामाण्यान्यथानुपपत्तेः, न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा । कर्मणः मिथ्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेत् , न ; ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः ॥

कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेरपि अप्रामाण्यप्रसङ्ग इति चेत् , न ; बाधकप्रत्ययानुपपत्तेः । यथा ब्रह्मविद्याविधिश्रुत्या आत्मनि अवगते देहादिसङ्घाते अहम्प्रत्ययः बाध्यते, तथा आत्मन्येव आत्मावगतिः न कदाचित् केनचित् कथञ्चिदपि बाधितुं शक्या, फलाव्यतिरेकादवगतेः, यथा अग्निः उष्णः प्रकाशश्च इति । न च एवं कर्मविधिश्रुतेरप्रामाण्यम् , पूर्वपूर्वप्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्त्युत्पादनार्थत्वात् । मिथ्यात्वेऽपि उपायस्य उपेयसत्यतया सत्यत्वमेव स्यात् , यथा अर्थवादानां विधिशेषाणाम् ; लोकेऽपि बालोन्मत्तादीनां पयआदौ पाययितव्ये चूडावर्धनादिवचनम् । प्रकारान्तरस्थानां च साक्षादेव वा प्रामाण्यं सिद्धम् , प्रागात्मज्ञानात् देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यवत् । यत्तु मन्यसे — स्वयमव्याप्रियमाणोऽपि आत्मा सन्निधिमात्रेण करोति, तदेव मुख्यं कर्तृत्वमात्मनः ; यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वयमयुध्यमानोऽपि सन्निधानादेव जितः पराजितश्चेति, तथा सेनापतिः वाचैव करोति ; क्रियाफलसम्बन्धश्च राज्ञः सेनापतेश्च दृष्टः । यथा च ऋत्विक्कर्म यजमानस्य, तथा देहादीनां कर्म आत्मकृतं स्यात् , फलस्य आत्मगामित्वात् । यथा वा भ्रामकस्य लोहभ्रामयितृत्वात् अव्यापृतस्यैव मुख्यमेव कर्तृत्वम् , तथा च आत्मनः इति । तत् असत् ; अकुर्वतः कारकत्वप्रसङ्गात् । कारकमनेकप्रकारमिति चेत् , न ; राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात् । राजा तावत् स्वव्यापारेणापि युध्यते ; योधानां च योधयितृत्वे धनदाने च मुख्यमेव कर्तृत्वम् , तथा जयपराजयफलोपभोगे । यजमानस्यापि प्रधानत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वम् । तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यते । यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रभृतीनाम् , तदा सन्निधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत ; यथा भ्रामकस्य लोहभ्रमणेन, न तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यते । तस्मात् सन्निधिमात्रेण कर्तृत्वं गौणमेव । तथा च सति तत्फलसम्बन्धोऽपि गौण एव स्यात् । न गौणेन मुख्यं कार्यं निर्वर्त्यते । तस्मात् असदेव एतत् गीयते ‘देहादीनां व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता च स्यात्’ इति । भ्रान्तिनिमित्तं तु सर्वम् उपपद्यते, यथा स्वप्ने ; मायायां च एवम् । न च देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते । तस्मात् भ्रान्तिप्रत्ययनिमित्तः एव अयं संसारभ्रमः, न तु परमार्थः ; इति सम्यग्दर्शनात् अत्यन्त एवोपरम इति सिद्धम् ॥ ६६ ॥

६७67

इदं ते नातपस्काय  
नाभक्ताय कदाचन ।  
न चाशुश्रूषवे वाच्यं  
न च मां योऽभ्यसूयति ॥ ६७ ॥
idaṃ te nātapaskāya  
nābhaktāya kadācana |  
na cāśuśrūṣave vācyaṃ  
na ca māṃ yo'bhyasūyati || 67 ||

इदं शास्त्रं ते तव हिताय मया उक्तं संसारविच्छित्तये अतपस्काय तपोरहिताय न वाच्यम् इति व्यवहितेन सम्बध्यते । तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन कस्याञ्चिदपि अवस्थायां न वाच्यम् । भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम् । न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् न सहते, असावपि अयोग्यः, तस्मै अपि न वाच्यम् । भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रम् इति सामर्थ्यात् गम्यते । तत्र ‘मेधाविने तपस्विने वा’ (यास्क. नि. २ । १ । ६) इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम् । शुश्रूषाभक्तिवियुक्ताय न तपस्विने नापि मेधाविने वाच्यम् । भगवति असूयायुक्ताय समस्तगुणवतेऽपि न वाच्यम् । गुरुशुश्रूषाभक्तिमते च वाच्यम् इत्येषः शास्त्रसम्प्रदायविधिः ॥ ६७ ॥

६८68

य इमं परमं गुह्यं  
मद्भक्तेष्वभिधास्यति ।  
भक्तिं मयि परां कृत्वा  
मामेवैष्यत्यसंशयः ॥ ६८ ॥
ya imaṃ paramaṃ guhyaṃ  
madbhakteṣvabhidhāsyati |  
bhaktiṃ mayi parāṃ kṛtvā  
māmevaiṣyatyasaṃśayaḥ || 68 ||

यः इमं यथोक्तं परमं परमनिःश्रेयसार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति, ग्रन्थतः अर्थतश्च स्थापयिष्यतीत्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यते । कथम् अभिधास्यति इति, उच्यते — भक्तिं मयि परां कृत्वा ‘भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते’ इत्येवं कृत्वेत्यर्थः । तस्य इदं फलम् — मामेव एष्यति मुच्यते एव । असंशयः अत्र संशयः न कर्तव्यः ॥ ६८ ॥

६९69

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।  
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ |  
bhavitā na ca me tasmādanyaḥ priyataro bhuvi || 69 ||

न च तस्मात् शास्त्रसम्प्रदायकृतः मनुष्येषु मनुष्याणां मध्ये कश्चित् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः, अन्यः प्रियकृत्तमः, नास्त्येव इत्यर्थः वर्तमानेषु । न च भविता भविष्यत्यपि काले तस्मात् द्वितीयः अन्यः प्रियतरः प्रियकृत्तरः भुवि लोकेऽस्मिन् न भविता ॥ ६९ ॥

७०70

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।  
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ |  
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ || 70 ||

अध्येष्यते च पठिष्यति यः इमं धर्म्यं धर्मादनपेतं संवादरूपं ग्रन्थं आवयोः, तेन इदं कृतं स्यात् । ज्ञानयज्ञेन — विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञः मानसत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य अध्ययनं स्तूयते ; फलविधिरेव वा, देवतादिविषयज्ञानयज्ञफलतुल्यम् अस्य फलं भवतीति — तेन अध्ययनेन अहम् इष्टः पूजितः स्यां भवेयम् इति मे मम मतिः निश्चयः ॥ ७० ॥

७१71

श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।  
सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ |  
so'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām || 71 ||

श्रद्धावान् श्रद्दधानः अनसूयश्च असूयावर्जितः सन् इमं ग्रन्थं शृणुयादपि यो नरः, अपिशब्दात् किमुत अर्थज्ञानवान् , सोऽपि पापात् मुक्तः शुभान् प्रशस्तान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् अग्निहोत्रादिकर्मवताम् ॥ ७१ ॥

७२72

कच्चिदेतच्छ्रुतं पार्थ  
त्वयैकाग्रेण चेतसा ।  
कच्चिदज्ञानसम्मोहः  
प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
kaccidetacchrutaṃ pārtha  
tvayaikāgreṇa cetasā |  
kaccidajñānasammohaḥ  
praṇaṣṭaste dhanañjaya || 72 ||

कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ? कच्चित् अज्ञानसम्मोहः अज्ञाननिमित्तः सम्मोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं शास्त्रश्रवणायासः तव, मम च उपदेष्टृत्वायासः प्रवृत्तः, ते तुभ्यं हे धनञ्जय ॥ ७२ ॥

७३73

अर्जुन उवाच —

नष्टो मोहः स्मृतिर्लब्धा  
त्वत्प्रसादान्मयाच्युत ।  
स्थितोऽस्मि गतसन्देहः  
करिष्ये वचनं तव ॥ ७३ ॥
arjuna uvāca —

naṣṭo mohaḥ smṛtirlabdhā  
tvatprasādānmayācyuta |  
sthito'smi gatasandehaḥ  
kariṣye vacanaṃ tava || 73 ||

नष्टः मोहः अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरः । स्मृतिश्च आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युत । अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेति । तथा च श्रुतौ ‘अनात्मवित् शोचामि’ (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) ‘तत्र को मोहः कः शोकः एकत्वमनुपश्यतः’ (ई. उ. ७) इति च मन्त्रवर्णः । अथ इदानीं त्वच्छासने स्थितः अस्मि गतसन्देहः मुक्तसंशयः । करिष्ये वचनं तव । अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ ७३ ॥

७४74

सञ्जय उवाच —

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।  
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥
sañjaya uvāca —

ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ |  
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam || 74 ||

इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मनः संवादम् इमं यथोक्तम् अश्रौषं श्रुतवान् अस्मि अद्भुतम् अत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ॥ ७४ ॥

७५75

व्यासप्रसादाच्छ्रुतवानिमं गुह्यतमं परम् ।  
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥
vyāsaprasādācchrutavānimaṃ guhyatamaṃ param |  
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam || 75 ||

व्यासप्रसादात् ततः दिव्यचक्षुर्लाभात् श्रुतवान् इमं संवादं गुह्यतमं परं योगम् , योगार्थत्वात् ग्रन्थोऽपि योगः, संवादम् इमं योगमेव वा योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् , न परम्परया ॥ ७५ ॥

७६76

राजन् संस्मृत्य संस्मृत्य  
संवादमिममद्भुतम् ।  
केशवार्जुनयोः पुण्यं  
हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥
rājan saṃsmṛtya saṃsmṛtya  
saṃvādamimamadbhutam |  
keśavārjunayoḥ puṇyaṃ  
hṛṣyāmi ca muhurmuhuḥ || 76 ||

हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणं संवादम् इमम् अद्भुतं केशवार्जुनयोः पुण्यम् इमं श्रवणेनापि पापहरं श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् ॥ ७६ ॥

७७77

तच्च संस्मृत्य संस्मृत्य  
रूपमत्यद्भुतं हरेः ।  
विस्मयो मे महान्राजन्  
हृष्यामि च पुनः पुनः ॥ ७७ ॥
tacca saṃsmṛtya saṃsmṛtya  
rūpamatyadbhutaṃ hareḥ |  
vismayo me mahānrājan  
hṛṣyāmi ca punaḥ punaḥ || 77 ||

तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं विस्मयो मे महान् राजन् , हृष्यामि च पुनः पुनः ॥ ७७ ॥

७८78

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।  
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |  
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 78 ||

यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन् पक्षे धनुर्धरः गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानां पक्षे श्रीः विजयः, तत्रैव भूतिः श्रियो विशेषः विस्तारः भूतिः, ध्रुवा अव्यभिचारिणी नीतिः नयः, इत्येवं मतिः मम इति ॥ ७८ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अष्टादशोऽध्यायः ॥
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣye aṣṭādaśo'dhyāyaḥ ||