द्वितीयः खण्डः

1

स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।  
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥
sa vedaitatparamaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram |  
upāsate puruṣaṃ ye hyakāmāste śukrametadativartanti dhīrāḥ || 1 ||

यस्मात् स वेद जानाति एतत् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टं धाम सर्वकामानामाश्रयमास्पदम् , यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगत् निहितम् अर्पितम् , यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम् , तमप्येवंविधमात्मज्ञं पुरुषं ये हि अकामाः विभूतितृष्णावर्जिता मुमुक्षवः सन्तः उपासते परमिव देवम् , ते शुक्रं नृबीजं यदेतत्प्रसिद्धं शरीरोपादानकारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनर्योनिं प्रसर्पन्ति । ‘न पुनः क्व रतिं करोति’ ( ? ) इति श्रुतेः । अतस्तं पूजयेदित्यभिप्रायः ॥

2

कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।  
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥
kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra |  
paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ || 2 ||

मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति — कामान् यः दृष्टादृष्टेष्टविषयान् कामयते मन्यमानः तद्गुणांश्चिन्तयानः प्रार्थयते, सः तैः कामभिः कामैर्धर्माधर्मप्रवृत्तिहेतुभिर्विषयेच्छारूपैः सह जायते ; तत्र तत्र, यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैर्वेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञानात्पर्याप्तकामः आत्मकामत्वेन परि समन्ततः आप्ताः कामा यस्य, तस्य पर्याप्तकामस्य कृतात्मनः अविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य, तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति, नश्यन्तीत्यर्थः । कामाः तज्जन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥

3

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।  
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३ ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena |  
yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām || 3 ||

यद्येवं सर्वलाभात्परम आत्मलाभः, तल्लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्ते, इदमुच्यते — यः अयमात्मा व्याख्यातः, यस्य लाभः परः पुरुषार्थः, नासौ वेदशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः । केन तर्हि लभ्य इति, उच्यते — यमेव परमात्मानमेव एषः विद्वान् वृणुते प्राप्तुमिच्छति, तेन वरणेन एष पर आत्मा लभ्यः, नान्येन साधनान्तरेण, नित्यलब्धस्वभावत्वात् । कीदृशोऽसौ विदुष आत्मलाभ इति, उच्यते — तस्य एष आत्मा अविद्यासञ्छन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटादिर्विद्यायां सत्यामाविर्भवतीत्यर्थः । तस्मादन्यत्यागेनात्मप्रार्थनैव आत्मलाभसाधनमित्यर्थः ॥

4

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ।  
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्म धाम ॥ ४ ॥
nāyamātmā balahīnena labhyo na ca pramādāttapaso vāpyaliṅgāt |  
etairupāyairyatate yastu vidvāṃstasyaiṣa ātmā viśate brahma dhāma || 4 ||

आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमादतपांसि लिङ्गयुक्तानि सन्न्याससहितानि । यस्मात् न अयमात्मा बलहीनेन बलप्रहीणेनात्मनिष्ठाजनितवीर्यहीनेन लभ्यः ; नापि लौकिकपुत्रपश्वादिविषयासङ्गनिमित्तात्प्रमादात् ; तथा तपसो वापि अलिङ्गात् लिङ्गरहितात् । तपोऽत्र ज्ञानम् ; लिङ्गं सन्न्यासः ; सन्न्यासरहिताज्ज्ञानान्न लभ्यत इत्यर्थः । एतैः उपायैः बलाप्रमादसन्न्यासज्ञानैः यतते तत्परः सन्प्रयतते यस्तु विद्वान्विवेकी आत्मवित् , तस्य विदुषः एष आत्मा विशते सम्प्रविशति ब्रह्म धाम ॥

5

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।  
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥
samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ |  
te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti || 5 ||

कथं ब्रह्म विशत इति, उच्यते — सम्प्राप्य समवगम्य एनम् आत्मानम् ऋषयः दर्शनवन्तः तेनैव ज्ञानेन तृप्ताः, न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन । कृतात्मानः परमात्मस्वरूपेणैव निष्पन्नात्मानः सन्तः । वीतरागाः विगतरागादिदोषाः । प्रशान्ताः उपरतेन्द्रियाः । ते एवम्भूताः सर्वगं सर्वव्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य, नोपाधिपरिच्छिन्नेनैकदेशेन ; किं तर्हि, तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीराः अत्यन्तविवेकिनः युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेऽपि आविशन्ति भिन्नघटाकाशवदविद्याकृतोपाधिपरिच्छेदं जहति । एवं ब्रह्मविदो ब्रह्म धाम प्रविशन्ति ॥

6

वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ।  
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥
vedāntavijñānasuniścitārthāḥ sannyāsayogādyatayaḥ śuddhasattvāḥ |  
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve || 6 ||

किञ्च, वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्यार्थः पर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः । ते च सन्न्यासयोगात् सर्वकर्मपरित्यागलक्षणयोगात्केवलब्रह्मनिष्ठास्वरूपाद्योगात् यतयः यतनशीलाः शुद्धसत्त्वाः शुद्धं सत्त्वं येषां सन्न्यासयोगात् , ते शुद्धसत्त्वाः । ते ब्रह्मलोकेषु ; संसारिणां ये मरणकालास्ते अपरान्तकालाः ; तानपेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्यागकालः परान्तकालः तस्मिन् परान्तकाले साधकानां बहुत्वाद्ब्रह्मैव लोको ब्रह्मलोकः एकोऽप्यनेकवद्दृश्यते प्राप्यते च । अतो बहुवचनं ब्रह्मलोकेष्विति, ब्रह्मणीत्यर्थः । परामृताः परम् अमृतम् अमरणधर्मकं ब्रह्म आत्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः, परामृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनिर्वाणवद्भिन्नघटाकाशवच्च निवृत्तिमुपयान्ति परिमुच्यन्ति परि समन्तान्मुच्यन्ते सर्वे, न देशान्तरं गन्तव्यमपेक्षन्ते । ‘शकुनीनामिवाकाशे जले वारिचरस्य वा । पदं यथा न दृश्येत तथा ज्ञानवतां गतिः’ (मो. ध. १८१ । ९) ‘अनध्वगा अध्वसु पारयिष्णवः’ ( ? ) इति श्रुतिस्मृतिभ्याम् ; देशपरिच्छिन्ना हि गतिः संसारविषयैव, परिच्छिन्नसाधनसाध्यत्वात् । ब्रह्म तु समस्तत्वान्न देशपरिच्छेदेन गन्तव्यम् । यदि हि देशपरिच्छिन्नं ब्रह्म स्यात् , मूर्तद्रव्यवदाद्यन्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात् । न त्वेवंविधं ब्रह्म भवितुमर्हति । अतस्तत्प्राप्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता ॥

7

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।  
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu |  
karmāṇi vijñānamayaśca ātmā pare'vyaye sarva ekībhavanti || 7 ||

अपि च, अविद्यादिसंसारबन्धापनयनमेव मोक्षमिच्छन्ति ब्रह्मविदः, न तु कार्यभूतम् । किञ्च, मोक्षकाले या देहारम्भिकाः कलाः प्राणाद्याः, ताः स्वाः प्रतिष्ठाः गताः स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्वितीयाबहुवचनम् । पञ्चदश पञ्चदशसङ्ख्याका या अन्त्यप्रश्नपरिपठिताः प्रसिद्धाः, देवाश्च देहाश्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतास्वादित्यादिषु गता भवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्तफलानि, प्रवृत्तफलानामुपभोगेनैव क्षीणत्वात् । विज्ञानमयश्चात्मा अविद्याकृतबुद्ध्याद्युपाधिमात्मत्वेन गत्वा जलादिषु सूर्यादिप्रतिबिम्बवदिह प्रविष्टो देहभेदेषु कर्मणां तत्फलार्थत्वात्सह तेनैव विज्ञानमयेनात्मना ; अतो विज्ञानमयो विज्ञानप्रायः । त एते कर्माणि विज्ञानमयश्च आत्मा उपाध्यपनये सति परे अव्यये अनन्तेऽक्षये ब्रह्मणि आकाशकल्पेऽजेऽजरेऽमृतेऽभयेऽपूर्वेऽनपरेऽनन्तरेऽबाह्येऽद्वये शिवे शान्ते सर्वे एकीभवन्ति अविशेषतां गच्छन्ति एकत्वमापद्यन्ते जलाद्याधारापनय इव सूर्यादिप्रतिबिम्बाः सूर्ये, घटाद्यपनय इवाकाशे घटाद्याकाशाः ॥

8

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।  
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥
yathā nadyaḥ syandamānāḥ samudre'staṃ gacchanti nāmarūpe vihāya |  
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam || 8 ||

किञ्च, यथा नद्यः गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अदर्शनमविशेषात्मभावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा, तथा अविद्याकृतनामरूपात् विमुक्तः सन् विद्वान् परात् अक्षरात्पूर्वोक्तात् परं दिव्यं पुरुषं यथोक्तलक्षणम् उपैति उपगच्छति ॥

9

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।  
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥
sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati |  
tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto'mṛto bhavati || 9 ||

ननु श्रेयस्यनेके विघ्नाः प्रसिद्धाः ; अतः क्लेशानामन्यतमेनान्येन वा देवादिना च विघ्नितो ब्रह्मविदप्यन्यां गतिं मृतो गच्छति न ब्रह्मैव ; न, विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात् । अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्यप्रतिबन्धः, नित्यत्वादात्मभूतत्वाच्च । तस्मात् सः यः कश्चित् ह वै लोके तत् परमं ब्रह्म वेद साक्षादहमेवास्मीति जानाति, स नान्यां गतिं गच्छति । देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम् ; आत्मा ह्येषां स भवति । तस्माद्ब्रह्म विद्वान् ब्रह्मैव भवति । किञ्च, न अस्य विदुषः अब्रह्मवित् कुले भवति ; किञ्च, तरति शोकम् अनेकेष्टवैकल्यनिमित्तं मानसं सन्तापं जीवन्नेवातिक्रान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहाग्रन्थिभ्यः हृदयाविद्याग्रन्थिभ्यः विमुक्तः सन् मृतः भवतीत्युक्तमेव ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादि ॥

१०10

तदेतदृचाभ्युक्तम् —  
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः
।  
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥
tadetadṛcābhyuktam —  
kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ
|  
teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam || 10 ||

अथेदानीं ब्रह्मविद्यासम्प्रदानविध्युपप्रदर्शनेनोपसंहारः क्रियते — तदेतत् विद्यासम्प्रदानविधानम् ऋचा मन्त्रेण अभ्युक्तम् अभिप्रकाशितम् । क्रियावन्तः यथोक्तकर्मानुष्ठानयुक्ताः । श्रोत्रियाः ब्रह्मनिष्ठाः अपरस्मिन्ब्रह्मण्यभियुक्ताः परं ब्रह्म बुभुत्सवः स्वयम् एकर्षिम् एकर्षिनामानमग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तः ये, तेषामेव संस्कृतात्मनां पात्रभूतानाम् एतां ब्रह्मविद्यां वदेत ब्रूयात् शिरोव्रतं शिरस्यग्निधारणलक्षणम् । यथा आथर्वणानां वेदव्रतं प्रसिद्धम् । यैस्तु यैश्च तत् चीर्णं विधिवत् यथाविधानं तेषामेव वदेत ॥

११11

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः
परमऋषिभ्यः ॥ ११ ॥
tadetatsatyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte | namaḥ paramaṛṣibhyo namaḥ
paramaṛṣibhyaḥ || 11 ||

तदेतत् अक्षरं पुरुषं सत्यम् ऋषिः अङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवदुपसन्नाय पृष्टवते उवाच । तद्वदन्योऽपि तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय ब्रूयादित्यर्थः । न एतत् ग्रन्थरूपम् अचीर्णव्रतः अचरितव्रतोऽपि अधीते न पठति ; चीर्णव्रतस्य हि विद्या फलाय संस्कृता भवतीति । समाप्ता ब्रह्मविद्या ; सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण सम्प्राप्ता, तेभ्यो नमः परमऋषिभ्यः । परमं ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च, ते परमर्षयः तेभ्यो भूयोऽपि नमः । द्विर्वचनमत्यादरार्थं मुण्डकसमाप्त्यर्थं च ॥


इति तृतीयमुण्डके द्वितीयखण्डभाष्यम् ॥
iti tṛtīyamuṇḍake dvitīyakhaṇḍabhāṣyam ||