प्रथमः खण्डः
अपरविद्यायाः सर्वं कार्यमुक्तम् । स च संसारो यत्सारो यस्मान्मूलादक्षरात्सम्भवति यस्मिंश्च प्रलीयते, तदक्षरं पुरुषाख्यं सत्यम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति, तत्परस्या ब्रह्मविद्याया विषयः । स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते —
१1
तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥
tadetatsatyaṃ yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ |
tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti || 1 ||
यदपरविद्याविषयं कर्मफललक्षणम् , सत्यं तदापेक्षिकम् । इदं तु परविद्याविषयम् , परमार्थसल्लक्षणत्वात् । तदेतत् सत्यं यथाभूतं विद्याविषयम् ; अविद्याविषयत्वाच्च अनृतमितरत् । अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येरन्निति दृष्टान्तमाह — यथा सुदीप्तात् सुष्ठु दीप्तादिद्धात् पावकात् अग्नेः विस्फुलिङ्गाः अग्न्यवयवाः सहस्रशः अनेकशः प्रभवन्ते निर्गच्छन्ति सरूपाः अग्निसलक्षणा एव, तथा उक्तलक्षणात् अक्षरात् विविधाः नानादेहोपाधिभेदमनुविधीयमानत्वाद्विविधाः हे सोम्य, भावाः जीवाः आकाशादिवद्घटादिपरिच्छिन्नाः सुषिरभेदा घटाद्युपाधिप्रभेदमनु भवन्ति ; एवं नानानामरूपकृतदेहोपाधिप्रभवमनु प्रजायन्ते, तत्र चैव तस्मिन्नेव चाक्षरे अपियन्ति देहोपाधिविलयमनु विलीयन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाऽऽकाशस्य सुषिरभेदोत्पत्तिप्रलयनिमित्तत्वं घटाद्युपाधिकृतमेव, तद्वदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वम् ॥
२2
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २ ॥
divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ |
aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ || 2 ||
नामरूपबीजभूतादव्याकृताख्यात्स्वविकारापेक्षया परादक्षरात्परं यत्सर्वोपाधिभेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्यादिविशेषणं विवक्षन्नाह — दिव्यः द्योतनवान् , स्वयञ्ज्योतिष्ट्वात् । दिवि वा स्वात्मनि भवः अलौकिको वा । हि यस्मात् अमूर्तः सर्वमूर्तिवर्जितः, पुरुषः पूर्णः पुरिशयो वा, सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण वर्तत इति । अजः न जायते कुतश्चित् , स्वतोऽजस्य जन्मनिमित्तस्य चाभावात् ; यथा जलबुद्बुदादेर्वाय्वादिः, यथा नभःसुषिरभेदानां घटादिः । सर्वभावविकाराणां जनिमूलत्वात् तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजः अतोऽजरोऽमृतोऽक्षरो ध्रुवोऽभय इत्यर्थः । यद्यपि देहाद्युपाधिभेददृष्टिभेदेषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवभासते तलमलादिमदिवाकाशम् , तथापि तु स्वतः परमार्थस्वरूपदृष्टीनाम् अप्राणः अविद्यमानः क्रियाशक्तिभेदवान् चलनात्मको वायुर्यस्मिन्नसौ अप्राणः । तथा अमनाः अनेकज्ञानशक्तिभेदवत्सङ्कल्पाद्यात्मकं मनोऽप्यविद्यमानं यस्मिन्सोऽयममनाः । अप्राणो ह्यमनाश्चेति प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा बुद्धिमनसी बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्याः ; यथा श्रुत्यन्तरे — ध्यायतीव लेलायतीवेति । यस्माच्चैवं प्रतिषिद्धोपाधिद्वयस्तस्मात् शुभ्रः शुद्धः । अतोऽक्षरान्नामरूपबीजोपाधिलक्षितस्वरूपात् , सर्वकार्यकरणबीजत्वेनोपलक्ष्यमाणत्वात्परं तत्त्वं तदुपाधिलक्षणमव्याकृताख्यमक्षरं सर्वविकारेभ्यतस्मात्परतोऽक्षरात्परः निरुपाधिकः पुरुष इत्यर्थः । यस्मिंस्तदाकाशाख्यमक्षरं संव्यवहारविषयमोतं च प्रोतं च । कथं पुनरप्राणादिमत्त्वं तस्येत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति, तदा पुरुषस्य प्राणदिना विद्यमानेन प्राणादिमत्त्वं स्यात् ; न तु ते प्राणादयः प्रागुत्पत्तेः सन्ति । अतः प्राणादिमान्परः पुरुषः, यथाऽनुत्पन्ने पुत्रे अपुत्रो देवदत्तः ॥
३3
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca |
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī || 3 ||
कथं ते न सन्ति प्राणादय इति, उच्यते — यस्मात् एतस्मादेव पुरुषान्नामरूपबीजोपाधिलक्षितात् जायते उत्पद्यतेऽविद्याविषयो विकारभूतो नामधेयोऽनृतात्मकः प्राणः, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) ‘अनृतम्’ इति श्रुत्यन्तरात् । न हि तेनाविद्याविषयेणानृतेन प्राणेन सप्राणत्वं परस्य स्यादपुत्रस्य स्वप्नदृष्टेनेव पुत्रेण सपुत्रत्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चैतस्मादेव जायन्ते । तस्मात्सिद्धमस्य निरुपचरितमप्राणादिमत्त्वमित्यर्थः । यथा च प्रागुत्पत्तेः परमार्थतोऽसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः । यथा करणानि मनश्चेन्द्रियाणि च, तथा शरीरविषयकारणानि भूतानि खम् आकाशं, वायुः बाह्य आवहादिभेदः, ज्योतिः अग्निः, आपः उदकं, पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी ; एतानि च शब्दस्पर्शरूपरसगन्धोत्तरोत्तरगुणानि पूर्वपूर्वगुणसहितान्येतस्मादेव जायन्ते ॥
४4
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ |
vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā || 4 ||
सङ्क्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यम् ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिना मन्त्रेणोक्त्वा, पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते ; सङ्क्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिवदिति । यो हि प्रथमजात्प्राणाद्धिरण्यगर्भाज्जायतेऽण्डस्यान्तर्विराट् , स तत्त्वान्तरितत्त्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जायत एतन्मयश्चेत्येतदर्थमाह, तं च विशिनष्टि — अग्निः द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ ; यस्येति सर्वत्रानुषङ्गः कर्तव्यः अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्येत्येतत् । सर्वं ह्यन्तःकरणविकारमेव जगत् , मनस्येव सुषुप्ते प्रलयदर्शनात् ; जागरितेऽपि तत एवाग्निविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्भ्यां जाता पृथिवी, एष देवो विष्णुरनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥
पञ्चाग्निद्वारेण च याः संसरन्ति प्रजाः, ता अपि तस्मादेव पुरुषात्प्रजायन्त इत्युच्यते —
५5
तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् ।
पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्सम्प्रसूताः ॥ ५ ॥
tasmādagniḥ samidho yasya sūryaḥ somātparjanya oṣadhayaḥ pṛthivyām |
pumānretaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣātsamprasūtāḥ || 5 ||
तस्मात् परस्मात्पुरुषात् प्रजावस्थानविशेषरूपः अग्निः । स विशेष्यते — समिधो यस्य सूर्यः, समिध इव समिधः ; सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलोकाग्नेर्निष्पन्नात् सोमात् पर्जन्यः द्वितीयोऽग्निः सम्भवति । तस्माच्च पर्जन्यात् ओषधयः पृथिव्यां सम्भवन्ति । ओषधिभ्यः पुरुषाग्नौ हुताभ्य उपादानभूताभ्यः पुमानग्निः रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति । एवं क्रमेण बह्वीः बह्व्यः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् सम्प्रसूताः समुत्पन्नाः ॥
६6
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca |
saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ || 6 ||
किञ्च, कर्मसाधनानि फलानि च तस्मादेवेत्याह — कथम् ? तस्मात् पुरुषात् ऋचः नियताक्षरपादावसानाः गायत्र्यादिच्छन्दोविशिष्टा मन्त्राः ; साम पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभादिगीतिविशिष्टम् ; यजूंषि अनियताक्षरपादावसानानि वाक्यरूपाणि ; एवं त्रिविधा मन्त्राः । दीक्षाः मौञ्ज्यादिलक्षणाः कर्तृनियमविशेषाः । यज्ञाश्च सर्वे अग्निहोत्रादयः । क्रतवः सयूपाः । दक्षिणाश्च एकगवाद्या अपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकाः तस्य कर्मफलभूताः ; ते विशेष्यन्ते — सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति । ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥
७7
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi |
prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca || 7 ||
तस्माच्च पुरुषात्कर्माङ्गभूता देवाः बहुधा वस्वादिगणभेदेन सम्प्रसूताः सम्यक् प्रसूताः — साध्याः देवविशेषाः, मनुष्याः कर्माधिकृताः, पशवः ग्राम्यारण्याः, वयांसि पक्षिणः ; जीवनं च मनुष्यादीनां प्राणापानौ, व्रीहियवौ हविरर्थौ ; तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् ; श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगश्चित्तप्रसाद आस्तिक्यबुद्धिः ; तथा सत्यम् अनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम् ; ब्रह्मचर्यं मैथुनासमाचारः ; विधिश्च इतिकर्तव्यता ॥
८8
सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः ।
सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥
sapta prāṇāḥ prabhavanti tasmātsaptārciṣaḥ samidhaḥ sapta homāḥ |
sapteme lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta || 8 ||
किञ्च, सप्त शीर्षण्याः प्राणाः तस्मादेव पुरुषात् प्रभवन्ति । तेषां सप्त अर्चिषः दीप्तयः स्वस्वविषयावद्योतनानि । तथा सप्त समिधः सप्तविषयाः ; विषयैर्हि समिध्यन्ते प्राणाः । सप्त होमा ; तद्विषयविज्ञानानि, ‘यदस्य विज्ञानं तज्जुहोति’ (तै. ना. ८०) इति श्रुत्यन्तरात् । किञ्च, सप्त इमे लोकाः इन्द्रियस्थानानि, येषु चरन्ति सञ्चरन्ति प्राणाः इति विशेषणात् । प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्त्यर्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम् । यानि च आत्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्वं चैतत्परस्मादेव पुरुषात्सर्वज्ञात्प्रसूतमिति प्रकरणार्थः ॥
९9
अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥
ataḥ samudrā girayaśca sarve'smātsyandante sindhavaḥ sarvarūpāḥ |
ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā || 9 ||
अतः पुरुषात् समुद्राः सर्वे क्षाराद्याः । गिरयश्च हिमवदादयः अस्मादेव पुरुषात् सर्वे । स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्धवः नद्यः सर्वरूपाः बहुरूपाः । अस्मादेव पुरुषात् सर्वाः ओषधयः व्रीहियवाद्याः । रसश्च मधुरादिः षड्विधः, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः तिष्ठते तिष्ठति हि अन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्ध्यन्तराले शरीरस्यात्मनश्चात्मवद्वर्तत इत्यन्तरात्मा ॥
१०10
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥
puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam |
etadyo veda nihitaṃ guhāyāṃ so'vidyāgranthiṃ vikiratīha somya || 10 ||
एवं पुरुषात्सर्वमिदं सम्प्रसूतम् । अतो वाचारम्भणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम् ; अतः पुरुष एव इदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत्किञ्चिदस्ति । अतो यदुक्तं तदेवेदमभिहितम् ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति ; एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्वमित्युच्यते — कर्म अग्निहोत्रादिलक्षणम् ; तपः ज्ञानं तत्कृतं फलमन्यदेव तावद्धीदं सर्वम् ; तच्च एतद्ब्रह्मणः कार्यम् ; तस्मात्सर्वं ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनाम् , सः एवं विज्ञानात् अविद्याग्रन्थिं ग्रन्थिमिव दृढीभूतामविद्यावासनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव, न मृतः सन् हे सोम्य प्रियदर्शन ॥
इति द्वितीयमुण्डके प्रथमखण्डशभाष्यम् ॥
iti dvitīyamuṇḍake prathamakhaṇḍaśabhāṣyam ||